पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
[अयोध्याकाण्डः
लक्ष्मणाक्रोशः

 उपदेशपरमप्रयोजनं निगमयति-न लक्ष्मणेति । यवीयसी माता नातिशङ्कनीयेति कुत इत्यत्राह-दैवाभिपन्नेति । प्रारब्धग्रस्तेति यावत् । अनिष्टं वदन्ती दृश्यते। त्वं च दैवं तथाप्रभावं-अस्मदुपदेशेन जानासि किल । अतो नातिशङ्कनीयेति । अंग (३०) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वाविंशः सर्गः


त्रयोविंशः सर्गः
[लक्ष्मणाक्रोशः]

 इति ब्रुवति रामे तु [१][२]लक्ष्मणोऽधश्शिरा इव ।
 [३]ध्यात्वा मध्यं [४]जगामाशु सहसा [५][६]दुःखहर्षयोः ॥ १ ॥

 एवं शुद्धसत्त्वभावतो भगवता दैवावलम्बनेन परमार्थदृशा समाहितो लक्ष्मणो रजोन्मिश्रसत्त्वप्रधानतः दैवात्पौरुषं प्रबलमिति मन्यमानः पौरुषमवलम्ब्य दैवं प्रतिक्षेपणीयमिति ब्रूते । कृष्णावतारे बलदेववत्-रामावतारे लक्ष्मणश्शब्दब्रह्मशेषावतारः । अत उक्तप्रकृतित्वं लक्ष्मणस्य । तत्र मायाशक्तिप्रधानावतारं शुद्धं ब्रह्म भगवान् कुलगुरुः कृष्णः, सुस्थिरपेशीशक्तिप्रधानावतारं ब्रह्म सुशुद्धतरं ब्रह्म भगवान्राम इति विशेषः । इतीत्यादि । अधश्शिरा इति । उक्तार्थाङ्गीकारमूलमध-


  1. 'स्वानभ्युपगमसूचनायाधश्शिरास्सन्.... इवशब्देनास्थिरत्वमुच्यते । उत्तरत्र माध्यस्थ्यत्यागस्य वक्ष्यमाणत्वात्'-गो.
  2. लक्ष्मणोऽवाक्शिरा-ङ.
  3. श्रुत्वा-ङ.
  4. जगामेव मनसा-ङ.
  5. रामस्य धर्मे स्थैर्यं दृष्ट्वा हर्षः, राज्यभ्रंशा-दुःखमित्येषा मध्यगतिः। अधरिश्शिरस्त्वेनोक्तार्थस्यार्धाङ्गीकारध्वननम्-ति.
  6. दैन्य-हर्षयोः