पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ सर्गः]
247
अतो लक्ष्मण ! दुःखं मा काषीर्लक्ष्म्या विपर्यये

 अथवा किं ममैतेन [१]राज्यद्रव्यमतेन तु ।
 उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ २८ ॥

 राज्येति । राज्याभिषेकसाधनद्रव्यत्वेन मतं-अभिक्लृप्तं तथा । स्वयं-स्वहस्तेनेति यावत् । व्रतादेशं करिष्यतीति । व्रतसंकल्पसाधकं भविष्यतीत्यर्थः ॥ २८ ॥

 मा च, लक्ष्मण ! सन्तापं कार्षीर्लक्ष्म्या विपर्यये ।
 राज्यं वा वनवासो वा [२]वनवासो महोदयः ॥ २९ ॥

 राज्यं वनवासो वा ममास्तु, 'नाहमर्थपरः' इत्यादि 'ऋषिभिस्तुल्यं केवलं धर्ममास्थितं' इत्युक्तत्वात् । राज्यं वा यथावत्पालनेन धर्मसाधनमस्तु; वनवासो वाऽस्तु तपस्साधनम् । तयोरस्यास्ति विशेष इत्याह-वनवासो महोदय इति । प्रजाकृत्यचिन्ताविक्षेपराहित्येन सतततपःप्रवृत्तिसाधनत्वात्, विशिष्य पितृवाक्यपरिपालन विशेषप्रयोजनवत्त्वाच्च महोदयः-महाभ्युदयसाधनम् ॥ २९ ॥

 न लक्ष्मणास्मिन् खलु कर्मविघ्ने
  माता यवीयस्यतिशङ्कनीया ।
 दैवाभिपन्ना हि वदत्यनिष्टं
  जानासि दैवं च तथाप्रभावम् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वाविंशस्सर्गः



  1. राजद्रव्य-ङ.
  2. महोदयः-महाफलः, राज्यव्यापारक्लेशाभावात्, अपूर्वदर्शनसौख्याच्चेति भावः-गो. पितृवाक्यपरिपालनप्रयोजनवत्वात् महाभ्युदयसाधनम्-ती. स्वावतारोद्देशः तदानीमेव सिध्येदित्याशयः । महान् उदयः-उन्नतिः यस्मात् महोन्नतिसाधनम् इत्यर्थः ।