पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
246
[अयोध्याकाण्डः
लक्ष्मणप्रतिबोधनम्

 इदानीं प्रारब्धस्य लक्षणमप्याह-असंकल्पितमित्यादि । अचिन्तितसुखदुःखप्रापकं प्रारब्धमित्यर्थः । लक्षणान्तरं- निवर्तेत्यादि । येन पुरुषानभिमतारंभमारब्धं तदेव दैवस्य– प्रारब्धस्य कर्म-कृत्यम् । पुमिच्छाविघातकत्वे सति तदनिष्टावहत्वं प्रारब्धत्वमित्यर्थः ॥ २४ ॥

 [१]एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।
 व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ २५ ॥

 उपदिष्टं बुद्धियोगं सफलमुपसंहरति–एतयेत्यादि । बुद्ध्या-बुद्धियोगेन आत्मानं-अन्तःकरणं आत्मना-आत्मीयबुद्धियोगबलात् ॥

 तस्मादपरि[२]तप्यस्व त्वमप्यनुविधाय माम् ।
 [३]प्रतिसंहर च क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ २६ ॥

 अपरितप्यस्व-परितापं मा कुरु । [४]मयूरव्यंसकादित्वात्समासः । त्वमपि मामनुविधाय-अनुकुर्वन् आभिषेचनिकीं-तत्प्रयोजनिकां क्रियां-अलङ्कारादिकर्म क्षिप्रं प्रतिसंहर ॥ २६ ॥

 एभिरेव घंटैः सर्वैः अभिषेचनसंभृतैः ।
 ममं, लक्ष्मण ! तापस्ये व्रतस्नानं भविष्यति ॥ २७ ॥

 तापस्ये-तापसव्रतसंकल्पे यत् व्रतसंकल्पापेक्षितं स्नानं-व्रत-स्नानमस्ति तदेभिर्भर्विष्यतीति योजना ॥ २७ ॥


  1. संस्तभ्य, यदि तिष्ठसीति शेषः-ति. तत्त्वया एतया बुद्धया आत्मनाऽऽत्मानं संस्तभ्य स्थितस्य मे अभिषेके व्याहतेऽपि परितापो न विद्यत इति वाऽन्वयः । एवं
    सत्येवानन्तरश्लोकानुरूप्यम्
  2. तापस्सन्-ङ.च.
  3. प्रतिसंहारय-ङ.च.
  4. नञः पूर्वनिपात इत्यर्थः