पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ सर्गः]
245
कश्च दैवेन सौमित्रे ! योद्धुमुत्सहते पुमान्

तन्निरासोऽपि सुकरः,तन्नास्तीत्याह-न यस्येत्यादि । यस्य-अदृष्टस्य ग्रहणं-ज्ञानमेव न समस्ति, तेन दैवेन कः पुमान् योद्धुमुत्सहते । तर्हि निष्प्रमाणत्वाद्दैवमेव नास्तीति वा किं न स्यादित्यत्राह–कर्मणोऽन्यत्रेति । अचिन्त्यहेतुसुखदुःखफलरूपकार्यवशादेव तदस्तित्वं त्वनुमेयम् । अतो न निष्प्रमाणतेत्यर्थः ॥ २१ ॥

 [१]सुखदुःखे भयक्रोधौ लाभालाभौ [२]भवाभवौ ।
 [३]यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ॥ २२ ॥

 अतो दैवमेव प्रबलं, पौरुषं तु काकतालीयमेवेत्याशयेनाह-सुखेत्यादि । भवाभवौ-बन्धमोक्षौ । यच्च किञ्चित्तथाभूतं-अचिन्त्यकारणकं कार्यमस्ति तत्सर्वं दैवस्य ननु कर्म-कार्यम् ॥ २२ ॥

 ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
 उत्सृज्य नियमांस्तीव्रान् [४]भ्रश्यन्ते [५]काममन्युभिः ॥ २३॥

 दैवप्राबल्यमेव द्रढयति-ऋषय इत्यादि । विश्वामित्रादय इति यावत् । मन्युः क्रोधः । अभिभूयन्त इति शेषः ॥ २३ ॥

 असंकल्पितमेवेह यदकस्मात्प्रवर्तते ।
 [६].निवर्त्या[७]रंभमारब्धं ननु दैवस्य कर्म तत् ॥ २४ ॥


  1. ननु कर्मणोऽन्यत्रेत्युक्तं, किं तत्कर्म ? तत्राह-सुखदुःख इति-गो.
  2. भवाभवौ-उत्पत्तिविनाशौ-गो.मङ्गलामङ्गले-सत्य.
  3. यस्य-ङ.
  4. गृह्यन्ते-ङ.
  5. काममन्युभिः भ्रश्यन्ते । कामस्य मन्योश्चानेकत्वात् बहुवचनम्.
  6. निवर्त्यारब्धमारम्भैः-इति ति पाठः । आरम्भैः यत्नैः आरब्धं-उपक्रान्तं कार्यं निवर्त्य यदसंकल्पितमेव-अचिन्तितमेव अकस्मात्-दृष्टहेतुं विना प्रवर्तते, तत् दैवस्य कर्म ननु-ति
  7. रब्धमारम्भैः-ङ.च.