पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
244
[अयोध्याकाण्डः
लक्ष्मणप्रतिबोधनम्

 सर्वथैव दैवमेव तस्या भावभेदहेतुरित्याह-कथमित्यादि । प्रकृतिसंपन्ना-परमसत्त्वप्रकृतिसंपन्ना राजपुत्री-महाकुलप्रसूता तथागुणा-एतत्क्षणात्प्रागनुभूततादृक्परमकल्याणगुणा भर्तृसन्निधौ च कथं कुर्यादिति । यदि न दैवहतेति शेषः ॥ १९ ॥

 यदचिन्त्यं तु तदैवं [१][२]भूतेषु न विहन्यते ।
 व्यक्तं मयि च तस्यां च पतितो हि [३]विपर्ययः ॥ २० ॥

 इह विषये न केवलं तस्या एव दैववशगत्वम् ; ममापीत्याह-यदित्यादि । यद्दैवं प्रारब्धादृष्टरूपमस्ति तदचिन्त्यं-अचिन्त्यफलदान-समर्थम्, तत् भूतेषु-संसारिषु न क्वापि विहन्यते-अशक्यविहनन-स्वफलदानं भवति । अतो [४]व्यक्तं-स्पष्टं मयि तस्यां च हि दैववशाद्विपर्ययः-यथाप्राप्तवैपरीत्यं-कनिष्ठराज्यज्येष्ठवनवासादिरूपं प्राप्तं, नान्यत इत्यर्थः ॥ २० ॥

 कश्च दैवेन, सौमित्र ! योद्धुमुत्सहते पुमान् ।
 [५]न यस्य ग्रहणं किञ्चित् कर्मणोऽ[६]न्यत्र दृश्यते ॥ २१ ॥

 ननु कथं दैवस्य प्राबल्यम् ? किञ्च तत्सत्वे मानमित्यत्राह-कश्चेत्यादि । यदि प्राचीनं दुरदृष्टं सुज्ञानं तदा तेनापि योद्धुं शक्यम् ;


  1. भूतेषु-भूताधिष्ठातृषु ब्रह्मादिष्वपि-ति.
  2. भूतेष्वपि न हन्यते-ङ.
  3. मयि हस्तगतराज्यभ्रंशरूपः, तस्यां
    पूर्वावस्थितवात्सल्यापगमरूपः विपर्ययः पतितः-प्राप्तः-गो.
  4. व्यक्तमिति क्रिया-विशेषणमिति भावः । गोविन्दराजीये तु-व्यक्तं-अत्र संशयो नास्ति इत्युक्तम्.
  5. यस्य नु ग्रहणं किश्चित्कर्मणोऽन्यन्न दृश्यते-ति. पाठः । क्रियत इति कर्म कार्यम् ।
    फलरूपकार्यतोऽन्यत्र यस्य ग्रहणं-ज्ञानसाधनं न दृश्यते-गो. यद्वा अन्यत्रेति पञ्चम्यर्थे तसिल् । फलव्यतिरिक्तात्साधनात् तद्ग्रहणं न संभवतीत्यर्थः
  6. न्यन्न-ङ.च.