पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ सर्गः]
243
मत्प्रवासे त्वहं हेतुं नान्यं दैवात्समर्थये

 [१]कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम [२]पीडने ।
 यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ १६ ॥

 कृतान्तस्त्वेवेत्यवधार्यांशमाह-कैकेय्या इत्यादि ॥ १६ ॥

 जानासि हि यथा, सौम्य ! न मातृषु ममान्तरम् ।
 [३]भूतपूर्वो विशेषो वा तस्या मयि सुतेऽपि वा ॥ १७ ॥

 हे सौम्य ! मम तु मातृषु अन्तरं न-प्रतिपत्तिभेदो नं । तथा तस्याः कैकेय्या अपि तत एव सुते भरते मय्यपि वा विशेषो न भूतपूर्वः-नानुभूत इतीममर्थं च जानासि किल । अतो दैवकृतो भावभेद इति निश्चिन्विति शेषः ॥ १७ ॥

 सोऽभिषेकनिवृत्यर्थैः प्रवासार्थैश्च दुर्वचैः ।
 [४]उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात् समर्थये ॥ १८ ॥

 अयमेव निश्चय इत्याह-स इत्यादि । सोऽहमभिषेकनिवृत्ति-प्रयोजनैः प्रवासप्रयोजनैश्च दुर्वचैरुयैर्वाक्यैः तस्या एवं प्रवर्तने दैवादन्यन्न किञ्चिदपि कारणमस्ति इत्यहं समर्थये ॥ १८ ॥

 कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।
 ब्रूयात् सा प्राकृतेव स्त्री [५][६]मत्पीड्यं भर्तृसन्निधौ ॥ १९ ॥


  1. हि-यस्मात् कैकेय्या मयि मरतादप्यधिका प्रतिपत्तिः-इष्टत्वाभ्युपगमः प्रसिद्धः तमुपचितव्यवहारानुभवादेव तादृश्यास्तस्या मयीदृशो भावः-अभिप्रायः कथं स्यात् । अथ देवो भरताभिषेकप्रापकः सद्दैवविहितः मद्वनवासप्रापककृतान्तविहितः-दुरदृष्टविहितो यदि न भवेत् । दैवकरणकमेव कैकेय्या भाववैपरीत्यं इत्यत्र सहजभावं स्मारयति-जानासीत्यादि.
  2. पीडन इति परदृष्ट्या.
  3. भूतपूर्वमिति पाठान्तरम्-गो. ति.
    तदा अन्तरमित्यनेनान्वयः । उत्तरात्रापि लिङ्गविपरिणामेनान्वयः
  4. वाक्यैरिति हेतौ तृतीया । दैवादन्यत् बुद्धिमेदकारणं न समर्थये-गो.
  5. अहं पीड्यः यस्य वाक्यस्य तत् मत्पीड्यम्.
  6. मत्पीडां-ङ.