पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
242
[अयोध्याकाण्डः
लक्ष्मणप्रतिबोधनम्

 [१]बुद्धिः [२]प्रणीता येनेयं मनश्च सुसमाहितम् ।
 तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम् ॥ १४ ॥

 तथा पितरमपि क्लेशयितुं नार्हामीत्याह-बुद्धिरित्यादि । येनेयं बुद्धिः-वनप्रव्रजनबुद्धिः उत्पादिता, यत्र मनश्च मामकं सुसमाहितं-सत्यपरिपालनशेषतया पूर्वप्रवृत्तत्वेन सुतरामव्याकुलतया उक्तकृतौ स्थापितञ्च तं तु संक्लेष्टुं नार्हामि । यदेवमतः-प्रब्रजिष्याम्येव । मा चिरं-विलम्बो मा स्त्वित्यर्थः ॥ १४ ॥

 [३]कृतान्तस्त्वेव, सौमित्रे ! द्रष्टव्यो मत्प्रवासने ।
 राज्यस्य च वितीर्णस्य पुनरेव निवर्तनं ॥ १५ ॥

 एवं प्रवासं निश्चित्य तत्र कैकेयीनिमित्तत्वशङ्कया तस्यां क्रोध-निवृत्तय आह-कृतान्त इत्यादि । प्राचीनं दुरदृष्टमेव [४]प्राप्ताप्राप्तराज्यवनाप्राप्तिप्राप्तिकारणं, नान्यदित्यर्थः । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु" ॥ १५ ॥


  1. येन मया इयं बुद्धिः-वनवासबुद्धिः प्रणीता-शिक्षितां मनश्च सुसमाहितं-स्थिरीकृतं तं मां संक्लेष्टुं क्लेशयितुं नार्हामि-गो. येन-ईश्वरेणेयं बुद्धिः कैकेय्याः प्रणीता-मन्थरा-द्वारा दत्ता, मनश्च तद्बुद्धिविषये सुसमाहितं-स्थिरीकृतं तं संक्लेष्टुं-मत्कृतमन्यथाजातमिति क्लेशयितुं नार्हामि । तस्य मदधिकारित्वान्मद्रूपत्वाद्वेति गूढ आशयः । (मत्संकल्पकृत एवायं इत्याशयः)-ति. येन-मन्थरादिजनेनेयं बुद्धिरुत्पदिता तमपि क्लेशयितुं नार्हामि-किं पुनः पितराविति भावः-ती.
  2. प्रणिहिता येन-ङ.
  3. कृतान्तः-दैवम् इन्द्रादीनां दुःखनिवर्तकादृष्टमिति यावत्-ति. गो. कृतः अन्तो येनेति व्युत्पत्या कृंतान्तशब्देन काल उच्यते-रामानुज-अन्यथा उत्तरत्र 'दैवोऽयं कृतान्तविहितः' इत्यत्र क्लेशः स्यादिति भावः
  4. प्राप्तराज्याप्राप्ति, अप्राप्तवनप्राप्तिकारणमिति यथासंख्यमन्वयः