पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ सर्गः]
241
परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम

मनस्तापो भवेत् । तस्य च मनस्तापो मामपि तपेत्-तापयेत्-पितृहितमकुर्वतो मम जन्म किमिति ॥ १० ॥

 अभिषेकविधानं तु तस्मात्संहृत्य, लक्ष्मण !
 [१]अन्वगेवाहमिच्छामि वनं गन्तुमितः [२]पुरः ॥ ११ ॥

 यदेवमतः-अभिषेकेत्यादि । अन्वगेव-अभिषेकनिर्वर्तनानन्तरमेव । इतः पुरः-पूर्शब्दात्पञ्चमी ॥ ११ ॥

 मम प्रव्राजनाद्य कृतकृत्या नृपात्मजा ।
 सुतं भरतमव्यग्र[३]मभिषेचयतां ततः ॥ १२ ॥

 अव्यग्रं स्वस्थबुद्धितया अभिषेचयतां-अभिषेकं कारयताम् ॥ १२ ॥

 मयि चीराजिनधरे जटामण्डलधारिणि ।
 गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ १३ ॥

 गतेऽरण्यामिति । गत एवेति यावत् ॥ १३ ॥


  1. अन्वक्-अनुपदं 'अन्वगन्वक्षमनुगेऽनुपदं क्लीबम्' इत्यमरः- गो. भरतागमनं नाहं प्रतीक्षे । अपि त्वस्मिन्नेव क्षणे वनं गच्छाम्यहम् । अनन्तरं भरतोऽभिषिच्यतामित्यर्थः । भरतागमने हि सर्वं व्यत्यस्तं भवेत् । अपि च वरद्वये प्रथमवरनिर्वर्तनानन्तरमेव हि द्वितीयवरनिर्वर्तनं युक्तमिति भावः । अत एव 'अभिषेचयतां ततः' इत्युक्तमिति.
  2. पुनः-ङ.
  3. मभिषेचयिता ततः-ङ.