पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
240
[अयोध्याकाण्डः
लक्ष्मणप्रतिबोधनम्

 न बुद्धिपूर्वं नाबुद्धं [१]समारब्धं कदाचन ।
 मातॄणां वा पितुर्वाऽहं [२]कृतकल्पं च विप्रियम् ॥ ८ ॥

 कथमसहनमित्यत्रेतः प्रागेवं निर्णीतव्यवहारत्वादेवेत्याह-न बुद्धीत्यादि । मातॄणां, पितुर्वा बुद्धिपूर्वं विप्रियं-विप्रियकरं कर्म कदाचन-कदापि न समारब्धं-नारब्धवानस्मि । तथा अबुद्धं- अबुद्धिपूर्वकमपि तन्न समारब्धम् । अपि च तत् कृतकल्पमपीति न । एवं पाङ्क्ते पाठेऽर्थे च स्थिते 'स्मरामीह' इति [३]'कृतमल्पं च विप्रियम्' इति च पाठं योजनाशक्त्याऽ[४]चीक्लृपत् परः ॥ ८ ॥

 [५]सत्यः सत्यभिसन्धश्च नित्यं सत्यपराक्रमः ।
 परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ ९ ॥

 सत्यः-सत्यवचनस्वभाववान् । निर्भयोऽस्त्विति । तत्कृतसत्यपरिपालनादेव ॥ ९ ॥

 [६]तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते ।
 सत्यं नेति मनस्तापः, तस्य तापस्तपेच्च माम् ॥ १० ॥

 विपक्षे बाधकमाह-तस्यापीत्यादि । हि-यस्मात् । अस्मिन्नभिषेककर्मण्यप्रतिसंहृते तस्य-पितुः सत्यं न संवृत्तमभूत् इति कृत्वा


  1. 'स्मरामीह'-ङ.
  2. 'कृतमल्पं'-ङ.
  3. कृतकल्पं-क.
  4. महेश्वरतीर्थः
  5. सत्यः-सत्यवचनः, सत्याभिसन्धः-सत्यप्रतिज्ञः, सत्य-पराक्रमः-अमोघपराक्रमः-गो. यथाक्रमं विशेषणत्रयेन वाचि मनसि कर्मणि च सत्यत्वं प्रतिपादितं भवतीत्याशयः
  6. 'यस्या मदभिषेकार्थे मानसं परितप्यते' इति पूर्वमुक्तत्वात्त तस्यापीत्युक्तम् । एवञ्च अभिषेचनसंभारेऽप्रतिसंहृते कैकेय्या दुःखं पूर्वमुक्त्तम् । न कैकेय्याः केवलं शोकः, तस्यापि राज्ञः शोकः स्यादिति भावः । शिष्टं ६ श्लोकटिप्पण्यां द्रष्टव्यम्.