पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ सर्गः
239
निगृह्य शोकं सौमित्रे ! धर्म एव स्थिरो भव

 उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे ।
 सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ॥ ५ ॥

 यदेवं-अतः उपक्लृप्तमित्यादि । निरत्ययं-निरपायम् । सत्यपरिपालनोपयुक्तं कार्यं वल्कलाद्यानयनरूपं कुर्वित्यर्थः ॥ ५ ॥

 [१]यस्या मदभिषेकार्थे मानसं परितप्यते ।
 माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ॥ ६ ॥

 अपि च यस्याः मदभिषेकार्थे-अर्थशब्दो निवृत्तिवचन इह, "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु”, यस्या मदभिषेकनिवृत्तिनिमित्तं मानसं परितप्यते, सा मे माता यथा चेत्सशङ्का न स्यात्तथा कुरु । 'पितृवाक्यपरिपालनं रामकर्तव्यम् । अल्पकालसाध्यत्वाच्च तस्य तद्विषये त्वया न विषक्तव्यम् । अनुमन्यस्व[२]' इत्येवमादिवचनेनेति शेषः ॥ ६ ॥

 तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे ।
 मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ ७ ॥

 कुत एवमित्यत्राह--तस्या इत्यादि । तस्या मनसि प्रतिसंजातं शङ्कामयं दुःखं मुहूर्तमप्युपेक्षितुं नोत्सहे ॥ ७ ॥


  1. मदभिषेकार्थे-मदभिषेकविषये माता-कैकेयी-सविशंका-लक्ष्मणेन संमन्त्र्य राज्यं रामः पुन किं ग्रहीष्यती'ति शङ्कावती यथा न स्यात् तथा कुरु-तवोच्चावचभाषणेन हि सा तथा मन्येतापि । अहं तु सर्वथा तन्न सहे इति भावः । अनन्तरश्लोकानां स्वारस्य-पर्यालोचनायामयमर्थः स्वरसः.
  2. अहमेव वा रामस्य सहायतया वनं गत्वा रामं सुरक्षामीति च वदेति च भावः स्यात्