पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
238
[अयोध्याकाण्डः
लक्ष्मणप्रतिबोधनम्

 आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
 उवाचेदं स धैर्येण धारयन् [१]सत्त्वमात्मवान् ॥ २ ॥

 अथ भगवान् रामः सौमित्रेः कैकेयीविषयकरोषमुपशमयति-अथेत्यादि । सविशेष-रामेष्टजनान्तरापेक्षयति शेषः । अमर्षितं प्राप्तासहनम् । विष्फारितं-विस्तारितम् । सत्त्वं-सर्वविषयकं स्वबलं । धैर्येण धारयन्-प्रकटयन् ॥ २ ॥

 निगृह्य रोषं शोकं च [२]धैर्यमाश्रित्य केवलम् ।
 अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ ३ ॥
 सौमित्रे ! योऽभिषेकार्थे मम संभारसंभ्रमः ।
 [३]अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः ॥ ४ ॥

 किमुवाचेत्यत्राह-निगृह्येत्यादि । रोषं-पित्रादिवधहेतुभूतम् । अवमानं-वनप्रवासरूपावमानम् । निरस्येति । शत्रुभिर्निजदौर्बल्यकृतत्वाभावादित्याशयः । उत्तमं हर्षं गृहीत्वेति । सत्यपरिपालनेन पितुः पुण्यलोकसिद्धिजं हर्षमित्यर्थः तं गृहीत्वा तत्सिद्ध्यर्थमेव हे सौमित्रे ! ममाभिषेकार्थं-तत्प्रयोजनमुद्दिश्य यः संभारसंभ्रमो वर्तते सः संभारसंभ्रमः-त्वरा अभिषेकनिवृत्यर्थेऽस्तु । सा त्वरा वनवासपरिकरसंपादनाय तवास्तु ॥ ४ ॥


  1. सत्त्वं-अन्तःकरणं धैर्येण धारयन्, अविकृतं यथातथा धारयन्निति वार्थः । अन्तः-करणं निगृह्येति यावत् । तत्रोपपादकं- आत्मवानिति । आत्मवान्-महामनाः । 'आत्मवान् को जितक्रोधः '(बाल. १-४) इति वाल्मीकिप्रश्नस्य 'तेर्युक्तः श्रूयतां नरः' इति खलु प्रत्युत्तरितं नारदेन । तदत्र स्पष्टीकृतम्
  2. धर्ममा-ङ.
  3. ४-५ श्लोकयोः पौर्वापर्य-व्यतिक्रमः-गो. ति. युक्तं च तत् । यतो 'निगृह्म' इत्यादिश्लोकः क्रियासाकाङ्क्षः । तस्य च 'हर्षं गृहीत्वा उत्तरत्र कार्यं कुरु' इत्यन्वयः स्वरसः.