पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ सर्गः]
237
प्रसाद्य मातरं रामो लक्ष्मणं त्वेवमब्रवीत्

 यशो ह्यहमति । प्राप्तमपि राज्यं त्यक्त्वा पितृवाक्यपरिपालनं कृतवानित्येवं रूपम् । देवि ! मानुषे जीविते अदीर्घकाले-अल्पकालतया निश्चिते सति कथं जीवनार्थं अवरां-अवरप्रयोजनभूतां महीं अधर्मतः-परमपुरुषार्थत्यागेन वृणे ॥ ६४ ॥

 प्रसादयन्नरवृषभः स्वमातरं
  पराक्रमाज्जिगमिषुरेव दण्डकान् ।
 अथानुजं भृशमनुशास्य दर्शनं
  चकार तां [१]हृदि जननीं प्रदक्षिणम् ॥ ६५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकविंशः सर्गः


 दर्शनं-धर्मरहस्यज्ञानम् । तां जननीं प्रदक्षिणं कृत्वा हृदि गन्तुं मनश्चकार इत्यर्थः । गति (६३) (?) मानः सर्गः ॥ ६५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकविंशः सर्गः



द्वाविंशस्सर्गः
[लक्ष्मणप्रतिबोधनम्]

 अथ तं व्यथया दीनं सविशेषं-[२]सविशेषममर्षितम् ।
 [३]सरोषमिव नागेन्द्रं रोषविष्फारितेक्षणम् ॥ १ ॥


  1. हृदि प्रदक्षिणं चकार-प्रदक्षिणं कर्तुं सङ्कल्पितवानित्यर्थः-गो.
  2. सातिशयं यथातथा अमर्षितं-इति वार्थः । श्लोकद्वयमेकं वाक्यम्.
  3. वसन्तमिव ङ.