पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
236
[अयोध्याकाण्डः
कोसल्यासान्त्वनम्

 [१]तस्मिन् पुनर्जीवति धर्मराजे
  विशेषतः स्वे पथि वर्तमाने ।
 देवी मया सार्धमितोऽभिगच्छेत्
  कथंस्विदन्या [२]विधवेव नारी ॥ ६२ ॥

 विशेषतः स्वे पथि-इष्टं पुत्रं परित्यज्यापि सत्यं रक्षणीय-मित्येवंलक्षणे सत्यमार्ग इत्यर्थः । अन्येत्यस्यैव विवरणम्-विधवेति ॥

 सा माऽनुमन्यस्व वनं व्रजन्तं
  कुरुष्व [३]नः स्वस्त्ययनानि, देवि !
 यथा समाप्ते पुनराव्रजेयं
  यथा हि सत्येन पुनर्ययातिः ॥ ६३ ॥

 मा-मामिति यावत् ॥ ६३ ॥

 यशो ह्यहं केवलराज्यकारणात्
  न पृष्ठतः कर्तुमलं महोदयम् ।
 [४]अदीर्घकाले न तु, देवि ! जीविते
  वृणेऽवरामद्य महीमधर्मतः ॥ ६४ ॥


  1. कौसल्यायाः स्वानुगमनं वारयति-तस्मिन्नित्यादि.
  2. भर्ता रक्षति यौवने । रक्षन्ति स्थाविरे पुत्राः' इति भर्तृहीनानामेव पुत्रेण वर्तनं युक्तमित्याशयः
  3. इतः पूर्वं वनगमनं प्रति सीताभिप्रायस्यापरिज्ञातत्वात् 'दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥' इत्युक्तया लक्ष्मणाभिप्रायस्य ज्ञातत्वाच्च 'नः' इत्येतदावयोरित्यस्मिन्नर्थे वर्तते ॥....एवं च सति 'अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहं' इति वक्ष्यमाणलक्ष्मणवचनं चोपपद्यते-गो.
  4. निमित्तसप्तमीयं-तटिद्वश्यञ्जलजीवितनिमित्तम्-गो