पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
235
अथापि बोधयामास मातरं धर्ममात्मवान्

मेवोपक्रमेत, न तु धर्मविरुद्धमर्थं कामं वा । कुत एवमित्यत्राह-द्वेष्य इत्यादि । हि-यस्मात्, अर्थपरो लोके द्वेष्यो भवति, यथा-अस्मास्वेव । इह लोके कामार्थता-कामप्रयोजनता धर्मविरुद्धा न प्रशस्ता-गर्हिता राज्ञ इव ॥ ५९ ॥

 गुरुश्च राजा च पिता च वृद्धः
  क्रोधात्प्रहर्षाद्यदि वाऽपि [१]कामात् ।
 यद्व्यादिशेत् [२]कार्यमवेक्ष्य धर्मं
  कस्तं न कुर्यादनृशंसवृत्तिः ॥ ६० ॥

 यदेवं-अतः-गुरुश्चेत्यादि । धर्ममवेक्ष्य-सत्यपरिपालनरूपं धर्ममवेक्ष्य यत् कार्यमादिशेत् ॥ ६० ॥

 स वै न शक्नोमि पितुः प्रतिज्ञा-
  मिमामकर्तुं सकलां यथावत् ।
 स ह्यावयोस्तात ! [३]गुरुर्नियोगे
  [४]देव्याश्च भर्ता [५]स गतिः स धर्मः ॥ ६१ ॥

 यथावत्कृतामिमां प्रतिज्ञां सकलां-संपूर्णां कर्तुम् । नियोग इति । प्रभुरिति शेषः । अत एव स गतिः । तद्वचनक्रियैव धर्मः ॥ ६१


  1. मोहात्-ङ.
  2. यत् व्यादिशेत् तत् धर्ममवेक्ष्य-पितृवचनकरणं धर्म इति ज्ञात्वा-ति.
  3. नियोगे गुरुः-प्रभुः-गो.
  4. देव्याश्च भर्त्तेयनेन-मातृवचनापेक्षया पितृवचनमेवावश्यं कर्तव्यम्-स हि पिता मातुरपि पूज्यः इत्यर्थः सूच्यते । उत्तर-श्लोकोपक्षेपश्च.
  5. स गतिश्च-ङ.