पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
234
[अयोध्याकाण्डः
कौसल्यासान्त्वनम्

धमार्थकामानेव समीक्षितान्-सम्यङ्निश्चितहेतून् वदन्ति । ये चेमे त्रय-श्शुभफलहेतव उक्ताः, ते सर्वे यत्र स्युः-यस्मिन् पुरुषेऽविरोधेन संभवन्ति तत्र-तस्मिन् पुरुषे सर्वाणि च स्युः -धर्मादित्रयप्राप्यसर्वशुभफलानि चासंशयं हेतुपौष्कल्यात्प्रादुर्भवेयुरिति मे निश्चयः । अथैकाश्रय- तयानेकशुभप्रादुर्भावे दृष्टान्तः-भार्येत्यादि । यथैकैत्र भार्या पुरुष- वशंवदत्वरूपवश्यत्वधर्मेणौपासनदेवपूजादिगृहस्थधर्मसाधनं भवति, अभिमतात्वेन सौख्यसंपादनसाधनं भवति, [१]सुपुत्रात्वेन पितृलोकसंपादनसाधनं च भवति तद्वदित्यर्थः ॥ ५८ ॥

 [२]यस्मिंस्तु सर्वे स्युरसन्निविष्टाः
  धर्मो यतः स्यात्तदुपक्रमेत ।
 द्वेष्यो भवत्यर्थपरो हि लोके,
  [३]कामार्थता [४]खल्वपि न प्रशस्ता ॥ ५९ ॥

 भवत्वेवं ; यत्राविरोधेनोक्तहेतुत्रयप्रवृत्तिः तत्रास्तु यथायोगानुष्ठानं; यत्र तु विरोधस्तत्र किं कर्तव्यमित्यत्राह-यस्मिन्नित्यादि । यस्मिन्-पुरुषे सर्वे-धर्मादिशुभहेतवः असन्निविष्टाः -अशक्यानुष्ठानतोऽसन्निहिताः स हि पुरुषः यतः-येन साधनेन धर्मः स्यात् तदेव साधनमादाय धर्म-


  1. सुपुत्रा सती अर्थं-गो.
  2. यस्मिन्कर्मण्याश्रीयमाणे सर्वे-अर्थादयः त्रयः असन्निविष्टाः-न प्रविशन्ति न संभवन्तीति यावत् ; तदा यतो धर्मः-धर्म एव स्यात्
    तदारभेत। अथवा यस्मिन् कर्मणि सर्वे-धर्मार्थकामा असन्निविष्टाः स्युः-अविद्यमाना भवेयुः-तत्कर्म नोपक्रमेत। यतः यस्मात्कर्मणः- धर्मः स्यात्तदुपक्रमेत-गो. एवं वाऽर्थः-ते तत्र सर्वे स्युरिति पूर्वं एकस्यैव कर्मण फलत्रय- साधनत्वमुक्तम् । यस्मिंस्तु कर्मणि
    पूर्वोक्तरीत्या धर्मादयः सर्वे न सन्निविष्टा भवन्ति- किन्त्वेकैकफलमात्रं, तदा यस्मात् धर्मः
    स्यात्तदेवोपक्रमेत इति
  3. कामात्मता-ङ.च.
  4. खल्वति-ङ, च