पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
233
तथाऽवस्थां तु तां दृष्ट्वा रामोऽप्युदेजितोऽभवत्

 अहं हि ते [१]लक्ष्मण ! नित्यमेव
  जानामि भक्तिं च पराक्रमं च ।
 मम त्वभिप्रायमसंनिरीक्ष्य
  मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥ ५७ ॥

 [२]ब्रह्मस्वभावत्वादेव भगवतः क्षत्रव्यापारो न रोचते; अत एव क्षत्राश्रितां मतिं [३]त्यजेत्युपदिशति । श्रुतविश्वामित्रकथत्वाच्च । मम त्वभिप्रायमिति । धर्मैकनित्यप्रतिष्ठत्वरूपमित्यर्थः । अभ्यर्दसिखेदयसि । एवं [४]सुदुःखं मा कुरु ॥ ५७ ॥

 धर्मार्थ[५]कामान् किल, तात ! [६]लोके
  [७]समीक्षितान् धर्मफलोदयेषु ।
 ते तत्र सर्वे स्युरसंशयं मे
  भार्येव वश्याऽभिमता [८]सुपुत्रा ॥ ५८ ॥

 अथ धर्मानुष्ठाने सति सन्देहविषये निर्णयं वक्तुं सन्देहस्थलेऽनुष्ठानप्रकारं तावदाह-धर्मेत्यादि । हे ! तात ! लोके खलु धर्म-फलोदयेषु-विद्यैश्वर्यानन्दादिलक्षणशुभफलप्रादुर्भावादिलक्षण कार्येषु यथा


  1. एवं मातुर्दुःखं लक्ष्मणेनैव प्रवर्धितमिति प्रथमं लक्ष्मणमेवाह
  2. तदेनां विसृजानार्यां क्षत्रधर्माश्रितामित्युक्तत्वादिति भावः.
  3. त्यजेत्याधुपदिशति-घ.
  4. सुतरां दुःखं-घ.
  5. कामाः-ङ, च.
  6. लोक इति मोक्षव्यावृत्तिः । धर्मफलोदयेषु-धर्मस्य फलभूतानां सौख्यादीनामुदयेषु-प्राप्तिषु समीक्षिताः-उपायत्वेन निश्चिताः ये धर्मार्थकामाः ते सर्वे, तत्र-धर्मे स्यु (सर्वस्यापि मूलभूतो धर्म एवेत्याशयः)-गो.(कतकव्याख्यारीत्या तु- केवलार्थकामौ त्याज्यौ-किन्तु धर्मार्थकामास्त्रय एव मिलिताः सुखहेतुरित्यर्थः) यद्वा-लोके फलसाधनत्वेन समीक्षिता धर्मादयः ते सर्वे तत्र फलोदयेषु स्युः-समर्थाः स्युः- गो.
  7. समीक्षिताः-ङ. च.
  8. सपुत्रा-ङ. च.