पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
232
[अयोध्याकाण्डः
कौसल्यासान्त्वनम्

 अमृतेन-अमृतत्त्वसाधनेन । जीवलोकादिति । नित्यसन्निहितादपीति शेषः ॥ ५४ ॥

 [१]नरैरिवोल्काभिरपोह्यमानो
  महागजोऽध्वा[२]नमनुप्रविष्टः ।
 भूयः प्रजज्वाल विलापमेनं
  निशम्य रामः करुणं जनन्याः ॥ ५५ ॥

 नरैः-गजग्राहिभिः रात्रावुल्काभिरपोह्यमानो महागजः अध्वानमभिप्रविष्टो भूत्वा भीत्या यथा बृंहितेन प्रज्वलति-प्रवर्धते एवं तस्या विलापशब्दादभ्यधिकं प्रजज्वाल ॥ ५५ ॥

 स मातरं चैव विसंज्ञकल्पां
  आर्तं च सौमित्रिमभिप्रतप्तम् ।
 धर्मे स्थितो धर्म्यमुवाच वाक्यं
  यथा स एवार्हति तत्र वक्तुम् ॥ ५६ ॥

 रामस्य धर्मनिष्ठावैभवं वाल्मीकिः श्लाघते-यथेत्यादि । तत्र-तथाविधघोरदशायां स यथा धर्मं वक्ति-तथा तादृग्दशायां धर्मं वक्तुं पुनश्च स एव धर्मविग्रहोऽनन्तकल्याणगुणगणो भगवान् ब्रह्मा राम एवार्हति ॥ ५६ ॥


  1. पूर्वमेव परितप्तो रामः भूयः सन्तप्तोऽभूदित्यर्थः । प्रजज्वाल-किमिदम् ? यन्मामधर्मे प्रबर्तयितुं विलपतीति क्रोधः-ति. अपोह्यमानः-निवार्यमाणोऽपि अध्वानं-मार्गं अनुप्रविष्टो महाराज इव मात्रादिवाक्येन वार्यमाणोऽपि धर्ममनुप्रविष्टो रामः भूयः
    प्रजज्वाल-संरब्धोऽभूत्, स्वमार्ग़ एव स्थितोऽभूदित्यर्थः- गो.
  2. न्तमनु-ङ.च.