पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः]
231
धृति पुत्रस्य विज्ञाय कौसल्या मूर्छिताऽभवत्

 अम्ब ! संहृत्य [१]संभारान् दुःखं हृदि निगृह्य च ।
 वनवासकृता बुद्धिर्मम धर्म्याऽनु[२]वर्त्यताम् ॥ ५१ ॥

 संभारान्-अभिषेकसंभारान् ॥ ५१ ॥

 एतद्वचस्तस्य निशम्य माता
  सुधर्म्य[३]मव्यग्रमविक्लवं च ।
 [४]मृतेव संज्ञां प्रतिलभ्य देवी
  समीक्ष्य रामं पुनरित्युवाच ॥ ५२ ॥

 मृतेव-मृतवन्मूर्छितेति यावत् ॥ ५२ ॥

 यथैव ते, पुत्र ! पिता, तथाऽहं
  गुरुः [५]स्वधर्मेण सुहृत्तया च ।
 न त्वाऽनुजानामि, न मां विहाय
  सुदुःखितामर्हसि गन्तुमेवम् ॥ ५३ ॥

 सुहृत्तया-तलन्तोऽयम् ॥ ५३ ॥

 किं जीवितेनेह विना त्वया मे
  लोकेन वा किं [६]सुधयाऽमृतेन
 श्रेयो मुहूर्तं तव सन्निधानं
  ममेह कृत्स्नादपि [७]जीवलोकात् ॥ ५४ ॥


  1. संभारान्-मच्छ्रेयःप्राप्तये त्वयानुष्ठीयमानाम् इत्यर्थः
  2. गम्यताम्-ङ.
  3. अव्यग्रं-अनाकुलम् । अविक्लवं-अचिह्नत्वम्-गो.
  4. मृतेव भूत्वा पुनस्संज्ञां प्रतिलभ्य इत्यन्वयः,
  5. स्वधर्मेण-पालनादिरूपमातृधर्मेण । सुहृत्तया-स्नेहेन-ति.
  6. स्वधयाऽसृतेनेति पाठान्तरम्-गो. स्वधया-पितृलोकप्राप्यया, अमृतेन-देवलोकेप्राप्येन इत्यर्थः
  7. त्वद्व्यतिरिक्तनिखिलजनसन्निधानेऽपि न मे निर्वृतिरिति भावः.