पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
230
[अयोध्याकाण्डः
कौसल्यासान्त्वनम्

 तदेनां विसृजानार्यां [१]क्षत्रधर्माश्रितां मतिम् ।
 धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ ४५ ॥

 अनार्यां-अशुभाम् । एनां मतिं-पितरमपि हत्वा राज्यं कुर्यामित्यादिलक्षणाम् ॥ ४५ ॥

 तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः ।
 उवाच भूयः कौसल्यां प्राञ्जलिः शिरसाऽऽनतः ॥ ४६ ॥
 अनुमन्यस्व मां देवि ! गमिष्यन्तमितो वनम् ।
 शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ ४७ ॥

 शापिताऽसि मम प्राणैरिति । गमननिरोघं मा कुर्विति शेषः॥४७॥

 [२]तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम् ।
 [३]ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ४८ ॥

 हित्वेति । भूमौ पतितः पुनर्भूमिं हित्वेत्यर्थः ॥ ४८ ॥

 शोकः संधार्यतां मातः ! हृदये साधु, मा शुचः ।
 वनवासादिहैष्यामि [४]पुनः कृत्वा पितुर्वचः ॥ ४९ ॥
 त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
 पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ ५० ॥


  1. क्षत्त्रधर्माश्रितां-केवलक्रूरधर्माश्रिताम् ।रौद्रशाठ्यसहितक्षत्रधर्माश्रितामिति वार्थः । क्षत्त्रधर्मस्य तथात्वं प्रतिपादितं हि महाभारते राजधर्मे–'क्षत्रधर्मो महारौद्रः शठकृत्य इति स्मृतः' इति । लोकायतवत्केवलनीतिर्नाश्रयणीया । किन्तु धर्ममाश्रिता नीतिरित्यर्थः-गो.
  2. प्रथमप्राप्तं पितृवचनं प्रथमं कृत्वानन्तरप्राप्तं त्वद्वचनमध्यनन्तरमेव करोमीत्याह-तीर्णेत्यादि
  3. स्वर्गाद्भ्रष्ट ययातिः यथा पुनरपि स्वर्गमवाप तथेत्यर्थः ।
    महाभारते उद्योगपर्वणि १२१ अध्याये इयं कथा द्रष्टव्या । यद्यपि ययातेः स्वर्गभ्रंशः देवर्ष्याद्यपचारमूलकः, न तथा रामस्य राज्यभ्रंशः । तथाऽपि यावत्संभवं दृष्टान्तोऽयमिति
  4. पुनः इहैष्यामीत्यन्वयः ।