पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
229
लक्ष्मणं चापि धर्मात्मा सान्त्वयामास राघवः

 तामेवमुक्त्वा जननीं लक्ष्मणं [१]पुनरब्रवीत् ।
 वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठस्सर्वधनुष्मताम् ॥ ३९ ॥
 तव लक्ष्मण ! जानामि मयि स्नेहमनुत्तमम्
 विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ ४० ॥
 [२]मम मातुर्महद्दुःखमतुलं, शुभलक्षण !
 [३]अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ ४१ ॥

 मम मातुर्महद्दुःखमपि जानाम्येव । अथापि मया तु सत्यस्य शमस्य चाभिप्रायं-रहस्यं ज्ञात्वा युष्मद्दुःखहेतुत्वेऽपि सत्ये प्रवर्ते । युष्माभिस्तु सत्यादे रहस्यमविज्ञाय खिद्यत इति शेषः ॥ ४१ ॥

 धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
 धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ ४२ ॥

 धर्मसंश्रितामिति । प्रतिश्रुतसत्यपरिपालनरूपं इत्यर्थः ॥ ४२ ॥

 संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।
 न कर्तव्यं वृथा, वीर ! धर्ममाश्रित्य तिष्ठता ॥ ४३ ॥

 वृथा न कर्तव्यं न मोघीकर्तव्यमित्यर्थः ॥ ४३ ॥

 सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।
 [४]पितुर्हि वचनाद्वीर ! कैकेय्याऽहं प्रचोदितः ॥ ४४ ॥


  1. पुनः-अनन्तरं-ति.गो.
  2. कौसल्याया व्यसनं त्वदपेक्षया ममैवातिदुःखकरमिति साभिप्रायमाह-ममेति.
  3. मम मातुर्यन्महद्दुःखं तत् सत्यशमयोरभिप्रायमविज्ञाय । तत्त्वज्ञस्य तवेदृशं वाक्यमनुचितमित्यर्थ-ति. गो.
  4. पितृवचनत्वाभावं परिहरति-पितुरिति-गो.