पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
228
[अयोध्याकाण्डः
कोसल्यासान्त्वनम्

 परशुना स्वयं कृतेति । स्वहस्तेनैव छिन्नेत्यर्थः । अरण्ये-तपोवने । एवमादौ एवमेव पाङ्क्तं प्राचीनपाठं पश्यामः । अन्यस्तु परशुधारेणेत्याद्यशुद्धं पठित्वा तत्समर्थने प्रयतते ॥ ३४ ॥

 एतैरन्यैश्च बहुभिः, [१]देवि ! देवसमैः कृतम् ।
 पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ ३५ ॥

 अक्लीबं-कातर्यरहितम् ॥ ३५ ॥

 न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।
 एतैरपि कृतं, देवि ! ये मया तव कीर्तिताः ॥ ३६ ॥
 [२]नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये ।
 [३]पूर्वैरय[४]मभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३७ ॥

 अपूर्वं-पूर्वानाचरितम्, नूतनमित्यर्थः । प्रतिकूलं-पूर्वाचारविरुद्धम् । उक्तार्थस्यैवान्वयमुखेन प्रतिपादनं-पूर्वैरित्यादि ॥ ३७ ॥

 तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।
 पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३८ ॥

 कार्यं-कर्तव्यत्वेन प्राप्तमेव क्रियते, नान्यथा-अकृत्यं न क्रियत इत्यर्थः । न हीयत इति। मात्रादिकिञ्चिद्दुः खोत्पादनादिति शेषः ॥३८॥


  1. देवदेव-ङ.
  2. ते प्रतिकूलं अपूर्वं धर्मं नाहं प्रवर्तये-ति.
  3. अभिप्रेतः-अङ्गीकृतः । सर्वसम्मत इति वार्थः । तेन चन्द्रकृततारागमनादिव्यावृत्तिः । ननु 'दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम्' इति मातृवधादिकं साहसत्वेन निन्दितमिति चेन्न, साहसस्य पितृनियुक्तव्यतिरिक्तविषयत्वात् व्याख्यातृभिस्तदुदाहरणमज्ञानविजृम्भितम् । 'पितुश्शतगुणं माता गौरवेणातिरिच्यते इति तु शुश्रूषानात्रे, न तु वचनकरणे । पितुरेव नियन्तृत्वात्-गो.
  4. मभिप्रत्य-ङ.