पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
227
रामः प्रसादयामास मातरं बहुधा तदा

 नास्ति शक्तिः [१]पितुर्वाक्यं समतिक्रमितुं मम ।
 प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ३१ ॥

 पितुर्वाक्यं समतिक्रमितुं शक्तिर्नास्तीति । त्वद्वचनस्य च कर्तव्यत्वेऽपि पितृवचनस्य प्रथमतः प्राप्तत्वेन प्राबल्यात्, युगपदनुष्ठानासंभवाच्च प्रथमं पितृवचनं कर्तव्यम् ॥ ३१ ॥

 ऋषिणा च पितुर्वाक्यं कुर्वता [२]व्रतचारिणा ।
 गौर्हता जानता धर्मं कण्डुनापि [३]विपश्चिता ॥ ३२ ॥

 अपि च पितृवाक्यगौरवेण गोवधो मातृवधोऽपि पूर्वैर्महात्मभिः कृतः । मया तु पितृवाक्यकरणतो दुःखमात्रं मातुरिति कुतः पितृवचसोऽकरणमित्याशयेनाह-[४]ऋषिणेति ॥ ३२ ॥

 अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः ।
 [५]खनद्भिस्सागरैर्भूमिमवाप्तस्सुमहान् वधः ॥ ३३ ॥

 वधोऽवाप्त इत्यनेन-प्राणानपि त्यक्त्वा पितृवाक्यं परिपालनीयम्; किमु कियत्कालवनवासमात्रेणेत्याशयः सूचितः ॥ ३३ ॥

 [६]जामदग्न्येन रामेण रेणुका जननी स्वयम् ।
 कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ ३४ ॥


  1. अधर्म्यं वचः श्रुत्वा सपत्न्या मम' (२३) इति कौसल्यावाक्यं साभिप्रायमुत्तरयति-पितुर्वावयमिति
  2. वनचारिणा-ङ.
  3. विपश्चितापि कण्डुनेत्यन्वयः
  4. 'राजर्षेत्यादि' इति मातृकासु.
  5. पितुराज्ञाया भूमिं खनद्भिरित्यन्वयः । इदमुपाख्यानं बालकाण्ड एव वर्णितम्.
  6. इयमाख्यायिका भारते वनपर्वणि ११७ अध्याये, श्रीभागवते नवमस्कन्धे १६ अध्याये च द्रष्टव्या.