पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
226
[अयोध्याकाण्डः
कौसल्यासान्त्वनम्

 त्वद्वियोगात्परं मे जीवितादिना न किञ्चित्कार्यं न किञ्चित्प्रयोजनमित्यर्थः । यदेवं अतः-त्वयेत्यादि ॥ २७ ॥

 यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
 अहं [१] प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ २८ ॥
 ततस्त्वं प्राप्स्यसे, पुत्र ! निरयं लोकविश्रुतम् ।
 [२]ब्रह्महत्यामित्राधर्मात् समुद्रः सरितां पतिः ॥ २९ ॥

 तत इति । मातुः प्राणान्तशोकसंपादनादित्यर्थः । सरितां पतिः समुद्रः कस्मिंश्चित्कल्पे मातृदुःखजननरूपाधर्माद्ब्रह्महत्यां-ब्राह्मणकृत्यां प्राप्य नरकादीनि प्राप्तवान् इति किञ्चित्पुराण-प्रसिद्धिः ॥ २९ ॥

 विलपन्तीं तथा दीनां कौसल्यां जननीं ततः ।
 उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ ३० ॥


  1. प्रायं-अनशनव्रतम् । इह-अस्मिन्नेव क्षणे
  2. अधर्मात्-पिप्पलादविषये कृतादपकारात् ब्रह्महत्यामिव-ब्राह्मणनिमित्तका हिंसा ब्रह्महत्येति व्युत्पत्त्या पिप्पलादोत्पादितकृत्यया समुद्रस्य प्राप्तं दुःखं ब्रह्महत्येत्युच्यते । पिप्पलादेन कृत्योत्पादनं च 'पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरि। पाषाणं ते मया दत्तमाहारार्थे प्रकल्पितम्' इति प्रसिद्धम् । साक्षात्समुद्रकर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम् । यद्वा-शुश्रूषुरित्यत्र काश्यपः पूर्वजन्मनि मातृशुश्रूषां कृत्वा तत्फलत्वेन दिवं गत्वा प्रजापतित्वं च गतवानिति पुराणकथा । उत्तरत्र-समुद्रः किल मातृदुःखजनन- रूपाधर्माद्ब्रह्महत्यां-ब्रह्महत्याप्राप्यनरकविशेषान् प्राप्तवानिति पौराणिकी कथा-गो. कदाचिज्जनन्यै दुदोह समुद्रः । तज्जनितावर्मात् पिप्पलादनिर्मिताभिचारिकक्रियायाः प्रतिमन्त्रणेन
    निवारणलक्षणहननात् ब्रह्महत्या समुद्रेण संपादिता । तया चानुबभूव दुःखमिति पौराणिकी कथा-सत्य.