पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
225
कौसल्याप्यनुमेने तद्वचनं लक्ष्मणेरितम्

 [१][२]न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् ।
 विहाय शोकसंतप्तां गन्तुमर्हसि मामितः ॥ २३ ॥

 अधर्म्यं सपत्न्याः–कैकेय्या वचः श्रुत्वा मां विहाय वनं गन्तुं नार्हसि ॥ २३ ॥

 धर्मज्ञ ! यदि धर्मिष्ठो धर्मं चरितुमिच्छसि ।
 [३]शुश्रूष मामिहस्थस्त्वं चर धर्म[४]मनुत्तमम् ॥ २४ ॥

 [५]शुश्रूष-शुश्रूषणं कुरु ॥ २४ ॥

 शुश्रूषुर्जननीं [६]पुत्रः स्वगृहे नियतो वसन् ।
 परेण [७]महता युक्तः काश्यपस्त्रिदिवं गतः ॥ २५ ॥

 महतेति । धर्मेणेति शेषः । त्रिदिवं गत इत्यनेन इह लोके पूर्वं मातृशुश्रूषाबलेन प्राजापत्यपदं प्राप्तवानित्यवगन्तव्यम् ॥ २५ ॥

 यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् ।
 त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ २६ ॥

 गौरवेणाहमपि पूज्येति । 'पितुश्शतगुणं माता गौरवेणातिरिच्यते' इत्यादिस्मृतेरित्याशयः ॥ २६ ॥

 त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा
 त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २७॥


  1. न हि राज्ञा साक्षादुक्तम् । सपत्नी तु यत्किञ्चिन्ममानिष्टानि वदेदेव । अतो न श्रद्धेयमित्याशयः । मम सपत्न्या भाषितं अधर्म्यं वच इत्यन्वयः ॥
  2. एतत्तु वचनं-ङ.
  3. शुश्रूषुः-ट.
  4. मनुस्मरन्-ङ.
  5. शुश्रूषुः-शुश्रूषणं कुर्वन्-ट.
  6. पुत्र !-ङ.
  7. तपसा-ङ.