पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
224
[अयोध्याकाण्डः
कौसल्यासान्त्वनम्

 ज्ञातित्वाविशेषात् त्वं वाऽस्मिन्विषये कथं विश्वसनीयः ? इति शङ्काभासमपनयति कौसल्यायाः-अनुरक्त इत्यादि । भावः- आन्तरः अभिप्रायः ॥ १७ ॥

 दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति ।
 प्रविष्टं तत्र मां, देवि ! त्वं पूर्वमवधारय ॥ १८ ॥
 हरामि वीर्यादुःखं ते तमः सूर्य इवोदितः ।
 देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ १९ ॥
 [१]हनिष्ये पितरं वृद्धं कैकेय्यासक्त[२][३]मुन्नतम् ।
 कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ॥ २० ॥

 कैकेय्यामासक्तः तं, अत एव हेतोरुन्नतं- बालवत्कामो[४]उन्नतचित्तम्, वस्तुतो वृद्धभावेन गर्हितम् । बाल्यादिर्व्याकृतपूर्वः ॥२०॥

 एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
 उवाच रामं कौसल्या रुदती शोकलालसा ॥ २१ ॥
 भ्रातुस्ते वदतः पुत्र ! लक्ष्मणस्य श्रुतं त्वया ? ।
 यदत्रानन्तरं [५]तत्त्वं कुरुष्व [६]यदि रोचते ॥ २२ ॥

 श्रुतमिति । अभिवदनमिति शेषः । यदत्रानन्तरमिति । कार्यमिति शेषः ॥ २२ ॥


  1. इदं पद्यं कुत्रचिन्नास्ति-ङ. झ.
  2. उन्नत-उच्छ्रितं, प्रवृद्धं अमर्यादमिति यावत् ।
  3. मानसं ङ.च. झ.
  4. चितचित्तम्-ट.
  5. कार्यं-ङ.
  6. 'यदि रोचते' इत्यनेन स्वस्यानभिमतिः सूचिता-ति. गो.