पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
223
राज्यं दातुं कोऽधिकारी भरतायास्य भूपतेः

 प्रोत्साहितोऽयं कैकेय्या [१]स दुष्टो यदि नः पिता ।
 [२]अमित्रभूतो[३]निस्सङ्गं [४]बध्यतां वध्यतामपि ॥ १३ ॥

 अशक्यार्थश्च भरताय राज्यदानं राज्ञः इत्याह-प्रोत्साहित इत्यादि ॥ १३ ॥

 गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
 उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ १४ ॥
 [५]बलमेष किमाश्रित्य हेतुं वा, पुरुषर्षभ ! ।
 दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ १५ ॥

 स्थितमिदं तवेति । ज्येष्ठत्वाद्गुणोत्तरत्वाच्चेति शेषः ॥ १५ ॥

 त्वया चैव मया चैव [६]दत्वा वैरमनुत्तमम् ।
 काऽस्य शक्तिः श्रियं दातुं भरतायारिशासन ! ॥ १६ ॥

 कैकेय्या प्रोत्साहितोऽप्ययं राजा आवाभ्यां वैरं कृत्वा भरताय राज्यं कथं दद्यात् ? तथा राज्याश्रयमपि च दातुं काऽस्य शक्तिः ? न कापि ॥ १६ ॥

 अनुरक्तोऽस्मि भावेन भ्रातरं, देवि ! तत्त्वतः ।
 सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १७ ॥


  1. सन्तुष्टो-ङ.च.
  2. त्रेताद्वापरयोस्संभावयमवतारः । तदा च किञ्चिदधिकपादेनाधर्मप्रवेशः । तदनुसारेण लक्ष्मणस्यैवमुक्तिः, कैकेय्याश्च परोपदेशेनैवं मतिः, छलेन वालिवघे प्रवृत्तिश्च भगवत इति बोध्यम्-ति.
  3. निस्संग-निस्स्नेहं यथा तथा निर्दाक्षिण्यमिति यावत्
  4. वध्यतां बध्यतामपि-ङ.
  5. एषः-दशरथः.
  6. कृत्वा वैरमित्येव सर्वत्र दृश्यते । त्वया मया च सह वैरं कृत्वेत्यर्थः। चतुर्थ्यर्थे तृतीयेति भावः ॥ दत्तेन-दानेन-गो.