पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
222
[अयोध्याकाण्डः
कौसल्यासान्त्वनम्

 बाल्यं-बालभावं-अविमृश्यकारित्वं । राजवृत्तं- प्राचीनराजधर्मं । अनुस्मरन्-पर्यालोचयन् ॥ ८ ॥

यावदेव न जानाति कश्चिदर्थमिमं नरः ।
तावदेव मया सार्धं आत्मस्थं कुरु [१]शासनम् ॥ ९ ॥

 इममर्थं-रामविवासनवृत्तान्तं । तावत्-ततःपूर्वमेव । शासनं-यथाप्राप्ताभिषेक पूर्वकं राज्यानुपालनापेक्षितराजनियोगम् । आत्मस्थं कुरुत्वदाज्ञामेव राज्ये प्रवर्तय ॥ ९ ॥

 मया पार्श्वे सधनुषा[२]तव गुप्तस्य राघव ! ।
 कः[३] समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ १० ॥

 कथमेवं शक्यमित्यत्राह-मयेत्यादि । अधिकं त्वदाज्ञामतिलङ्घ्याभ्याधिकं कर्तुमित्यर्थः ॥ १० ॥ कर्तुमित्यर्थः ।

 निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ ।
 करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ ११ ॥

 विप्रिय इति । तव विपक्षंभाव इत्यर्थः ॥ ११ ॥

 भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति ।
 सर्वानेतान् वधिष्यामि, मृदुर्हि परिभूयते ॥ १२ ॥

 मृदुर्हि परिभूयत इति । अतो मार्दवं न युक्तं तदनुचितकाल इति शेषः ॥ १२ ॥


  1. शासनं राज्यं-गो. यद्वा शासनं राज्यनिर्वाहमित्यर्थः । आत्मस्थं-
    स्वाधीनम्
  2. मया गुप्तस्य तवेत्यन्वयः.
  3. समर्थोऽप्रियं-ङ.