पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
221
देवि ! नैवानुजानामि धर्मापेतं नृपं त्वहम्

 [१]न तं [२]पश्यामि तल्लोके परोक्षमपि यो नरः !
 [३]स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ६ ॥

 अस्तु राघवस्याप्यधर्म इत्यत्राह-न तमित्यादि । तल्लोके-तत्समक्षं-राघवसमक्षं तस्य परोक्षमपि वा यो नरः-स्वमित्रः-सुतराम-मित्रोऽपि, महापातकादिदोषवशान्निरस्तोऽपि अस्य-रामस्य दोषं समुदाहरेत्-तं न पश्यामि ॥ ६ ॥

 देवकल्पमृजुं दान्तं [४]रिपूणामपि [५]वत्सलम् ।
 अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ ७ ॥

 यदेवं-अतः देवकल्पमित्यादि । रिपूणामपि-कैकेय्यादीनामपि विषये वत्सलं-स्निग्धं । धर्मं-[६]धर्मविग्रहम् ॥ ७ ॥

 तदिदं वचनं राज्ञः [७]पुनर्बाल्यमुपेयुषः ।
 पुत्रः को हृदये कुर्यात् [८]राजवृत्तमनुस्मरन् ॥ ८ ॥


  1. 'न तं पश्याम्यहं लोके' इति प्रायिकः पाठः । एतत्पाठे परोक्षमपीत्यत्र अपिनैव कैमुतिकन्यायेन विवक्षितार्थलाभः.
  2. पश्याम्यहं लोके-ङ.
  3. एव वास्यार्थः । लोके हि एकस्मिन्-पुरुषे, दोषज्ञानमत्यन्तरङ्गजनस्य स्यात्, सदा सन्निहितत्वात् । तच्छत्रूणां वा स्यात्, तद्दोषैकदत्तदृष्टित्वात्। एवमुमयथाऽपि रामे दोषज्ञानासंभवः । अत्यन्तरङ्गैर्मादृशैः, दोषैकदृष्टिभिः शत्रुभिश्च न कोऽपि दोषः ज्ञातुं शक्येतेति
  4. मातॄणामपि-ङ.
  5. वत्सलं-दोषे सत्यपि तदगणनानुकूलः स्नेहो वात्सल्यम्
  6. एतादृशं पुत्रं धर्मस्वरूपं अवेक्षमाणः-जानन् अकारणात् कः त्यज्येदित्यन्वयः । यद्वा धर्ममवेक्षमाणः-धर्मज्ञ इत्यर्थः.
  7. पुनर्बाल्यमिति-पुनःपदस्वारस्यात् बाल्यं-कामपरवशत्वमित्यर्थः स्वरसः.
  8. राजवृत्तं-राजमनीतिं-गो. अथवा वृत्तं चारित्र्यम् । एतादृशस्य कामपरवशत्य राज्ञो यच्चारित्र्यं स्त्रीवचनानुवर्तनरूपम् । अस्मत्पितुर्हि कामपारवश्यात्सदा कैकेय्यनुवर्तनं न नूतनं-अत इदं यत्किञ्चिदित्याशयः । न हि राज्यतन्त्रे स्त्रीमन्त्रणं हितायेति च भावः.