पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
220
[अयोध्याकाण्डः
कौसल्यासान्त्वम्

 गच्छेदिति यत् तन्ममापि न रोचते । 'आर्ये' इति कौसल्या-सम्बोधनम् ॥ २ ॥

 विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।
 नृपः किमिव न ब्रूयात् चोद्यमानः समन्मथः ॥ ३ ॥

 ननु राजचोदिते वनवासे [१]कथमिह स्थातुं शक्यमित्यत्राह-विपरीत इत्यादि । विपरीतः–प्राप्तप्रकृतिवैपरीत्यः । तत्र हेतुः- वृद्ध इत्यादि । चोद्यमान इति । स्त्रियेति शेषः । किमिव न ब्रूयात्-अनुचितशतमपि ब्रूयादेव । अतो न श्रद्धार्हमिति शेषः ॥ ३॥

 नास्यापराधं पश्यामि [२]नापि दोषस्तथाविधः ।
 येन [३]निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ ४ ॥

 ननु कथं राजदोषप्रयुक्तता विवासनस्य; रामदोषप्रयुक्तता वा कस्मान्न स्यादित्यत्राह-नास्येत्यादि । रामस्येत्यर्थः । अपराधं- पितृविषयकं । तथाविधो दोष इति । असमञ्जदेरिवान्यविषयको या विवासनहेतुरपराध इत्यर्थः ॥ ४ ॥

 [४][५]अहं हनिष्ये पितरं वृद्धं कामवशं गतम् ।
 स्त्रिया युक्तं च निर्लज्जं धर्मायुक्तं नृपं तथा ॥ ५ ॥

 अहं हनिष्य इति । अन्यायेन प्रवृत्ताभिषेकविघ्नं करिष्यति चेदिति शेषः । अत्र हेतुः-धर्मायुक्तमिति ॥ ५ ॥


  1. कथमिव-घ.
  2. 'नापि दोषं तथाविधम्' इति सर्वसम्मतः स्वरसः पाठः
  3. निर्यास्यते-ङ.
  4. अयं श्लोकः बहुषु कोशेषु न दृश्यते । रामस्य अपराधाभावप्रतिपादनपरयोः'नास्यापराधं पश्यामि' 'न तं पश्याम्यहं लोके' इति श्लोकयोर्मध्येऽस्य श्लोकस्यावसरालाभस्तु स्पष्टः
  5. इदं पद्यं झ. पुस्तके नास्ति.