पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
219
इत्येवं विलपन्तीं तां कौसल्यां लक्ष्मणोऽवदत्

 भृशं असुखं-दुःखं अमर्षिता-असहमाना राघवं समीक्ष्य तदा बहु विललाप । अपि च भावि महद्व्यसनं च रामवियोगमूलं सपतत्न्यादिसंपादनीयमुपमिशाम्य-पर्यालोच्य च सत्यपाशबद्धं राघवं सुतमवेक्ष्य किन्नरीव-यथोक्तनिमित्तवती किन्नरीव विललाप । [१]अधर्ममानः (५९१/२) सर्गः ॥ ५५ ॥

इति श्रीमद्रामायणामृतककटीकायां अयोध्याकाण्डे विंशः सर्गः


एकविंशः सर्गः
[कौसल्यासान्त्वनम्]

 तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।
 उवाच[२] लक्ष्मणोऽदीनः [३]तत्कालसदृशं वचः ॥ १ ॥

 एवं कौसल्याप्रलापे, लक्ष्मणेन चारातिनिरासे प्रतिज्ञातेऽपि भगवतो रामस्य सत्यस्थैर्यप्रतिपादनम् । तथा त्वित्यादि । तत्काल सदृशं-रामविप्रयोगहेतुककौसल्यादुःखप्रवृत्तिकालोचितम् ॥ १ ॥

 न रोचते ममाप्येतत्, आर्ये ! यद्राघवो वनम् ।
 त्यक्त्वा राज्याश्रयं गच्छेत् [४]स्त्रिया वाक्यवशं गतः ॥ २ ॥


  1. अत्र सर्वेषु कोशेषु परिदृश्यमानसंख्यावैरूप्यं चिन्तनीयम्
  2. लक्ष्मणो दीनः, लक्ष्मणोऽदीनं-ङ.
  3. एतेन वक्ष्यमाण लक्ष्मणवचनं केवलं कौसल्याशोकशान्त्यर्थे, न तु सहृदयमिति गम्यते-गो. परन्त्वत्र, अस्मिन्नेव सर्गे २७ तमश्लोको द्रष्टव्यः.
  4. 'स्त्रिया वाक्यवशंवदः' इति राघवविशेषणम् इति ज्ञायते, स्त्रिया वशंगत इत्यनुक्त्वा 'स्त्रिया वाक्यवशं गतः' इति कथनात् । उत्तरश्लोके चोद्यमान इत्यत्र चोदनहेतुः-समन्मथः ' इति साभिप्रायविशेषणे ध्वनितः । तिलके तु स्त्रिया इत्यारभ्य उत्तरान्वयि इति दशरथविशेषणतया व्याख्यातम्.