पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
218
[अयोध्याकाण्डः
कौसल्याऽऽक्रन्दनम्

 [१]यदि ह्यकाले मरणं स्वयेच्छया
  लभेत कश्चिद्गुरुदुःखकर्शितः
 गताऽहमद्यैव परेतसंसदं
  विना त्वया धेनुरिवात्मजेन वै ॥ ५३ ॥

 यदीत्यादि । गुरुदुःखकर्शितः कश्चिदपि स्वेच्छया अकाले-उक्तार्थः, [२] मरणं लभेत यदि ; तदा ह्यहमद्यैव त्वया विनाभूता परेतसंसद-यमसभां गता स्यां, तत्तु न लभ्यत इति शेषः ॥ ५३

 अथापि किं जीवितमद्य मे वृथा
  त्वया विना चन्द्रनिभाननप्रभ ! |
 अनुव्रजिष्यामि वनं त्वयैव गौः
  सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४ ॥

 अथापि किं जीवितं-कुत्सितं जीवितं वृथा व्यर्थम् । अतः- अनुव्रजिष्यामीत्यादि । अनुकाङ्क्षया-स्नेहेन ॥ ५४ ॥

 भृशमसुखममर्षिता तदा
  बहु विललाप समीक्ष्य राघवम् ।
 व्यसनमुपनिशाम्य सा महत्
  [३]सुतमिव बद्धमवेक्ष्य किन्नरी ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे विंशः सर्गः



  1. 'ध्रुवं ह्यकाले मरणं न विद्यते' इत्येतत् सकार्य दर्शयति-यदीति-गो.
  2. ५१ तमश्लोकव्याख्यानावसरे इति शेषः
  3. किन्नरी बद्धं स्वसुतमवेक्ष्येवेतिवान्वयः