पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
217
आयसं हृदयं मे यत् श्रुत्वाऽप्येतन्न दीर्यते

 ममैव नूनं मरणं न विद्यते
  न चावकाशोऽस्ति यमक्षयेऽपि वा ।
 यदन्तकोऽद्यैव न मां जिहीर्षति
  [१]प्रसह्य सिंहो रुदतीं मृगीमिव ॥ ५० ॥

 ममैवेत्यादि । लौकिकातिवृद्धोक्तिजातिरियम् ॥ ५० ॥

 स्थिरं हि नूनं हृदयं ममायसं
  [२]न भिद्यते यद्भुवि नो विदीर्यते ।
 [३] अनेन दुःखेन च देहमर्पितं
  ध्रुवं ह्यकाले मरणं न विद्यते ॥ ५१ ॥

 अयसा निर्मितं-आयसम् । अनेन च दुःखेनार्पितमपि देहं ; 'देहः क्लीबपुंसोः' ; हि यस्मात् न विदीर्यते; अतोऽकाले-ईश्वर-कल्पितकालव्यतिरिक्त काले मरणं न विद्यते, न लभ्यते च; लाभार्थक विदेर्यत् ; तन्त्राभिप्रायत उभयम् ॥ ५१ ॥

 इदं [४]तु दुःखं यदनर्थकानि मे
  व्रतानि दानानि च संयमाश्च हि ।
 तपश्च तप्तं यदपत्य[५]कारणात्
  सुनिष्फलं बीजमिवोप्तमूषरे ॥ ५२ ॥

 यत् व्रतादीनि-अनर्थकानि जातानि, तदिदं तु महद्दुःखम् । आनर्थक्ये दृष्टान्तः-ऊषरे उप्तं, अत एव सुनिष्फलं बीजामिवेति ॥


  1. स्ववत्सविपत्त्यादिदर्शनेन रुदतीं मृगीं प्रसह्य सिंहो यथा हन्यादिति । स्वपुत्रक्लेशदर्शनापेक्षया मातुः मरणमेव वरमित्यर्थः ।
  2. भेदः-द्विधाभवनं, विधारणं अनेक-छिद्ररेखावत्वम्-ति.
  3. एतादृशेन दुःखेन अर्पितं व्याप्तं देहं च न भिद्यत इति
    यदित्याद्यन्वयः
  4. तु-पूर्वदुःखेभ्यो विलक्षणम्-गो.
  5. काम्यया-ङ.