पुटमेतत् सुपुष्टितम्
216
[अयोध्याकाण्डः
कौसल्याऽऽकन्दनम्
जातस्येति । द्वितीयजन्मनेति शेषः । 'अतीतानि' इति पूर्वेण सम्बन्धः । अतः परं तव यथाप्राप्तेन यौवराज्येन दुःखपरिक्षयं प्रकाङ्क्षन्त्या मया तस्या वदनं कथं नु द्रष्टुं शक्यमित्यनुकर्षः ॥ ४५ ॥
[१]तदक्षयं महदुःखं नोत्सहे सहितुं चिरात् ।
विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव ! ॥ ४६ ॥
दुःखमिति । त्वद्विप्रयोगजमिति शेषः ॥ ४६ ॥
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।
कृपणा वर्तयिष्यामि कथं [२]कृपणजीविका ॥ ४७ ॥
कृपणजीविका-शोच्यजीवना ॥ ४७ ॥
दुःखं यथातथा मोघं-व्यर्थं संवर्धितोऽसि । यदि-विप्रवत्स्यसीति शेषः ॥ ४८ ॥
स्थिरं तु हृदयं मन्ये [५]ममेदं यत्र दीर्यते ।
प्रावृषीव महानद्याः स्पृष्टं कुलं नवाम्भसा ॥ ४९ ॥
न दीर्यत इति यदिति । त्वद्विप्रयोगश्रवणेऽपीति शेषः ॥ ४९ ॥
- ↑ दुःखं त्वद्वियोगजं, अक्षयं तव राज्यनाशात् क्षयसंभावनारहितमपि; अपि च एवं जीर्णा सपत्नीनां विप्रकारं सहितुं नोत्सहे-ति. जीर्णाऽपि-सपत्नीदुर्वाक्यश्रवणदुःखेन जीर्णाऽपि । विप्रकारं-अपकाररूपं दुःखमित्यन्वयः-गो. एवं जीर्णाऽपि-सापत्न्यकथा-योग्यवयोबलक्षयं प्राप्ताऽपि अक्षयं-निरवधिकं दुःखं सपत्नीनां विप्रकारं-निराकरणं च
सहितुं चिरं नोत्सहे-ती. - ↑ कृपणजीविकाम्-ङ.
- ↑ मोघं यथातथा दुःखेन संवर्धितः इत्यन्वयः.
- ↑ दुःखसंवर्धितां, दुःखं प्रवर्तते-ङ.
- ↑ शतधा-ङ.