पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
215
वत्स ! संबर्धितो मोघं त्वं हि दुर्गतया मया

 अपि च त्वयि प्रोषिते [१]भरते राजनि तं कैकेय्याः पुत्रमन्वीक्ष्य,यो हीदानीं मां सेवते कश्चित् अथवाप्यनुवर्तते मदिष्टं, स सर्वोऽपि जनो मां नाभिभाषते-नाभिभाषेतापि, सेवादिस्तु दूरे ॥ ४३ ॥

 नित्यक्रोधतया तस्याः कथं नु [२]खरवादिनम् ।
 कैकेय्या वदनं द्रष्टुं, पुत्र ! शक्ष्यामि दुर्गता ॥ ४४ ॥

 अपि च मद्विषये तस्या नित्यक्रोधतया खरवादिनं-'स्वमोः' इति [३]लुगभाव आर्षः, परुषवदनशीलं वदनं कथं नु द्रष्टुं शक्ष्यामि ? दुर्गता-दुर्दशापन्ना ॥ ४४ ॥

 [४]दश सप्त च वर्षाणि जातस्य तव राघव!
 [५]अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ ४५ ॥


  1. मृते च राजनि-ग.
  2. खरवादि तत्-ङ.
  3. 'खरवादि तत्' इति पाठे (गो.) तु नायं केशः.
  4. ननु ऊनषोडशवर्षो मे रामः' (वा. २०-२) इति विश्वामित्रं प्रति दशरथवचनात्, उषित्वा द्वादश सभाः (अर. ४७०४) इत्युपरि सीतया वक्ष्यमाणत्वाच्च रामस्य अष्टाविंशतिवर्षाणि वर्तन्ते, अत्र तु दश सप्त च वर्षाणि' इत्युच्यते । नैष दोषः । अत्र जातस्येस्युक्तिः द्वितीयजन्मापेक्षया । 'गर्भकादशेषु राजन्यं' इति बहुवचनेन
    गर्भनवममारभ्य क्षत्रियस्योपनयकालत्वोक्तेः-गो. यद्वा तव जातस्य
    त्वयि जाते,उपनयनानन्तरं दश सप्त च वर्षाणि दुःखपरिक्षयं प्रकांक्षन्त्या मयाऽऽसितानि | उपनयनप्रभृति सुताः परिणमन्त इति मातॄणां मनसो निर्वृतिर्भवति राजवर्यस्य रघुनाथस्य गर्भनवमे शुद्धाष्टमे वर्षे उपनयनं कृतम् । अतः उपनयनानन्तरं सप्तदशवर्षाणि जातानि-ती. जातस्य-उपनयनाख्यद्वितीयजन्मनेति शेषः । 'ऊनषोडशवर्ष' इति विश्वामित्रं प्रति दशरथोक्त्या विवाहकाले पञ्चदशवर्षत्वोक्तेः । 'तत्र द्वादशवर्षाणि राघवः सह सीतया । रमयामास' इति पाद्मोक्तेश्च । उपनयनं च गर्भेकादशे......'द्विर्दश' इति वाक्यस्यार्थे ।........'दश' इति वाक्येकदेशप्रयोगोऽयम् । द्विरावृत्ता दश-विंशतिः सप्त चेत्यर्थः तादृशप्रयोगश्च कौसल्यायाः पुत्रवियोगदुःखार्ततया, वाल्मीकेश्च वर्णनीयमयीभावेन न दोषायेति बोध्यम्-ति.
  5. आसितानि-ङ. ट.