पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
214
[अयोध्याकाण्डः
कौसल्याऽऽक्रन्दनम्

 अतो दुःखतरं किन्नु प्रमदानां भविष्यति ? ।
 मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ ४० ॥

 अतो दुःखतरं-सपत्नीधिक्कारवाक्यश्रवणजात्परं दुःखं स्त्रियो नास्ति । मम तु तादृशशोकमूलविलापो यादृशः तादृश एव वाचामगोचरोऽनन्तक एव ॥ ४० ॥

 त्वयि सन्निहितेऽप्येवमहमासं [१]निराकृता ।
 किं पुनः प्रोषिते तात ! ध्रुवं मरणमेव मे ॥ ४१ ॥

 एवं त्वयि सन्निहितेऽप्यहं सपत्नीभिर्निराकृता । त्वयि विप्रोषिते किं पुनः ! अतो मे मरणमेव ध्रुवं-प्राप्तम् ॥ ४१ ॥

 अत्यन्तं निगृहीताऽस्मि भर्तुर्नित्य[२][३]मसंमता ।
 परिवारेण कैकेय्याः समा वाऽप्यथवाऽवरा ॥ ४२ ॥

 ध्रुवमित्यत्र हेतुमाह-अत्यन्तमित्यादि । परिवारेण-दासीजनेन समा वा-अथवा अवरा-ततोऽपि निकृष्टा वा स्याम् ॥ ४२ ॥

 यो हि मां सेवते कश्चिदथवाऽप्यनुवर्तते ।
 [४]कैकेय्याः पुत्रमन्वीक्ष्य [५]स जनो [६]नाभिभाषते ॥ ४३ ॥


  1. संप्राप्तभवदभिषेकनिरोधेनेत्यर्थः
  2. अतन्त्रिता-अप्रधानीकृता-गो.
  3. मतन्त्रिता-ङ.
  4. भरतः स्वयौवराज्यप्राप्तये स्वयमेव स्वमातरं कैकेयीं रहसि प्रतिबोध्य स्वस्य निर्दुष्टताख्यापनाय बुद्धिपूर्वकमेव स्वमातुलगृहे वर्तत इति कौसल्या मन्यते स्म-वक्ष्यति च सा 'आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः । तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्' (अयो. ७५-५) इति । अत्र दीर्घदर्शिनमिति पदं पूर्वोक्ताभिप्रायेणैवोक्तमिति स्पष्टम् । अत एवेदानीमपि 'कैकेय्याः पुत्रं' इत्युक्तम् । स हि सपत्नीपुत्रः सर्वोपायैरपि मां पीडयितुमुद्यत इति कौसल्या मन्यते स्म
  5. स्वननो-ङ
  6. अतिसन्निहितत्वाभिप्रायेण 'नाभिभाषते' इत्युक्तम्.