पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः
213
वत्स ! जातः कुतो मे त्वमितो वन्ध्यात्वमुत्तमम्

 एक एव हि वन्ध्यायाः शोको भवति मानसः ।
 अप्रजाऽस्मीति संतापो न ह्यन्यः पुत्र ! विद्यते ॥ ३७ ॥

 अप्रजास्त्वदुःखमेतदपेक्षया सुसहमित्याह-एक इत्यादि । मानसशोकस्याभिनयः-अप्रजाऽस्मीति । सन्धिश्छान्दसः । अन्यः-इष्टपुत्रवियोगजः ॥ ३७ ॥

 न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे
 [१]अपि पुत्रे तु पश्येयमिति रामास्थितं मया ॥ ३८ ॥

 स्वस्याः सदा दुःखित्वमिति शोचति-न दृष्टेत्यादि । पत्युः पौरुषं-अनुरागकृतो रञ्जनविशेषः, तस्मिन् सति यत्-प्राप्यं कल्याणं-प्रशस्तवस्त्राभरणादिजसौभाग्याधिक्यं, तथा सुखं वा पतिसंभोगजं मया न दृष्टपूर्वम् । अथाऽपि पुत्रेऽपि चोत्पन्ने तदुभयं पश्येयमिति मया आस्थितम्-एवं प्रत्याशया स्थितवती ॥ ३८ ॥

 [२]सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।
 अहं श्रोष्ये सपत्नीनां [३]अवराणां वरा सती ॥ ३९ ॥

 साऽहं अवराणां-सुमित्रादीनां सर्वासां कनिष्ठराजस्त्रीणां स्वद्बलादिदानीं वरा सती, पुनश्च त्वद्वियोगे तव मुखमपश्यन्ती, हृदयच्छिदां-हृदयावहारिकाणां सपत्नीनां बहून्यमनोज्ञानि वाक्यानि एवं जीर्णाऽपि श्रोष्ये ॥ ३९ ॥


  1. अथापि पुत्रेऽपि चोपन्ने पुत्रनिबन्धनं तदुभयं पतिकर्तृकं पश्येयमिति-ती. पुत्रे जाते तदुभयमुक्तकल्याणं पुत्रदर्शनजं सुखं च पश्येयं-ति. पुत्रे सति तद्बलात्पश्येय-गो.वस्तुतस्तु लोके अपुत्राणां स्त्रीणां पतिसम्माननाभावः, पुत्रोत्पत्तौ पतिसम्माननं च
    प्रसिद्धमेवेति तीर्थोक्तं समीचीनम्.
  2. भूतदुःखमुक्त्वा भविष्यद्दुःखमाह सेति-गो.
  3. अवराणां सपत्नीनामिति वाऽन्वयः