पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
212
[अयोध्याकाण्डः
कौसल्याऽऽक्रन्दनम्

 उपावृत्योत्थितां दीनां वडवामिव वाहिताम् ।
 पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ ३४ ॥

 वाहितां-पूर्वं प्रापितवाहनव्यापारां पश्चाच्छ्रमातिवहनहेतवे लुठनाय विसृष्टां अत एवोपावृत्त्य-लुठित्वोत्थिताम् ॥ ३४ ॥

 सा राघवमुपासीन[१]मसुखार्ता सुखोचिता ।
 उवाच पुरुषव्याघ्र[२] मुपशृण्वति लक्ष्मणे ॥ ३५ ॥

 असुखेन-दुःखेन आर्ता-खिन्ना ॥ ३५ ॥

 [३],यदि पुत्र न जायेथा मम शोकाय राघव ! ।
 न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६ ॥

 अप्रजाः-वन्ध्येत्येतस्मात् भूयः-अभ्यधिकं दुःखं न पश्येयमिष्टपुत्रवियोगजम् ॥ ३६ ॥


  1. मदुःखार्हा-ङ.
  2. अनन्तरसर्गोपक्षेपसूचनायेदमुक्तम्
  3. हे पुत्र त्वं यदि न जायेथाः, अतः-अजननात् भूयः-अतिशयितं दुःख-इष्टपुत्रविश्लेषजं न पश्येयम्-गो. यदि मम शोकाय
    न जायेथाः अतस्तर्हि अप्रजा अप्यहं भूयः-बहुतरमेवंविधं दुःखं न पश्येयम्-ती.यद्वा यदि स्वं मम शोकफलाय केवलं न जायेथाः तदा अप्रजा इत्यतो भूयः-अधिकं दुःखं न पश्येयमित्यर्थः । यद्वा पूर्वार्धमेक वाक्यं, उत्तरार्धे चापरम् । मम शोकाय शोकफलार्थ न जायेथा यदि ! तव जन्म यदि न स्याद्वा, तदा वरमिति भावः । जन्मनो वृत्तसत्वेन तत्प्रतिबन्धासंभवाद्यदीत्युक्तम् । यदि रामस्य जन्मैव न स्यात्तदा अनपत्यताप्रयुक्तः शोको तेऽस्त्येवेत्यत्राह-न स्मेति । तव जन्माभावे अप्रजा इत्यतोऽधिकं दुःखं न स्म पश्येयं-न स्म पश्येयं खलु इत्यर्थः । तदेव स्पष्टयति-एक इत्यादि । वन्ध्यायाः शोको मानस एव, सच एकः-एकरूपः । मम त्विदानीं गर्भधारणप्रसवप्रभृत्यनेकः शारीरः शोकः, मानसोऽपि । स च नैकः, अपि तु बहुविधः । अतः तवाजननमेव श्रेयः स्यादिति