पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
211
श्रुत्वा तद्वचनं घोरं कौसल्या न्यपतद्भुवि

 चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
 [१]कन्दमूलफलैर्जीवन् [२]हित्वा मुनिवदामिषम् ॥ २९ ॥

 हित्वा मुनिवदामिषमिति । एतेन-विशिष्टसंस्कारसंस्कृतमांसोपेतभोजने निमन्त्रणं मातृकृतमपि प्रत्याख्यातम् । मुनिवदित्युक्तत्वादेव श्राद्धाय मांसग्रहो न विरुद्धः-'इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना' इति वक्ष्यमाणः ॥ २९ ॥

 भरताय महाराजो यौवराज्यं प्रयच्छति ।
 मां पुनर्दण्डकारण्यं विवासयति तापसम् ॥ ३० ॥
 स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।
 आसेवमानो [३]वन्यानि फलमूलैश्च वर्तयन् ॥ ३१ ॥
 सा निकृत्तेव सालस्य यष्टिः परशुना [४]वने ।
 पपात सहसा देवी देवतेव दिवश्चयुता ॥ ३२ ॥

 यष्टिः-शाखा ॥ ३२ ॥

 तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
 रामस्तूत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥


  1. मधुमूल-ङ.
  2. आमिषं-राजभोग्य वस्तु-'आमिषं पुनपुंसकम् । भोग्यवस्तुनि संभोगे' इति मेदिनी-शि. आमिषं-संभोगं, राज्यलोभं, सुन्दररूपं वा-'आमिषं पलले लोभे संभोगोत्कोचयोरपि इति विश्वः-सत्य. अत्रामिषशब्देन सूतैः संस्कृतं मांसमुच्यते । केवलमांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् 'इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना' (अयो. ९६-२) इति गो.
  3. वन्यानि वानप्रस्थयोग्यानि कर्माणि-गो. वल्कलानि-ति.
  4. नगरे तथा छेदनाभावात् "वने" इत्युक्तम-गो.
    दुःखानर्हत्वसूचकं वेदम् । प्रष्टुरभावाद्वा तथोक्तम्.