पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
210
[अयोध्याकाण्डः
कौसल्याऽऽक्रन्दनम्

 राजानं पश्येति । गत्वेति शेषः । रामस्य राजनिवेशगमनादि-व्यापारानभिज्ञानात्कौसल्यायाः राजदर्शननियोजनादि ॥ २४ ॥

 [१]दत्तमासनमालभ्य [२]भोजने तु निमन्त्रितः ।
 मातरं राघवः [३]किञ्चि[४]द्व्रीलात् प्राञ्जलिरब्रवीत् ॥ २५ ॥

 आसनं दत्वा[५] अत्रोपविश्य भुक्त्वा राजानं द्रष्टुं गच्छ इति भोजने-तद्धेतवे निमन्त्रितो राघवः केवलमासनमालभ्य-स्पृष्ट्वैव -केवलं; नोपविष्टो भूत्वा किञ्चिद्व्रीलात् किञ्चिदवाङ्मुख इति शेषः ॥ २५ ॥  स स्वभावविनीतश्च गौरवाच्च तदाऽऽनतः ।  प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २६ ॥  गौरवात्-मातृत्वप्रयुक्त गौरवाच्च । प्रस्थितः-निश्चितप्रस्थानः । आप्रष्टुं-अभ्यनुज्ञां कारयितुमुपचक्रमे ॥ २६ ॥

 देवि ! नूनं न जानीषे महद्भयमुपस्थितम् ।
 इदं च तव दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २७ ॥

 इदं च भयं युष्मदादीनां त्रयाणामेव विशिष्य दुःखाय ; न मम दुःखलेशोऽपीत्यर्थः ॥ २७ ॥

 गमिष्ये दण्डकारण्यं किमनेनासनेन मे ।
 विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २८ ॥

 विष्टरः-तपस्विनामासनविशेषः । वामावर्तपञ्चविंशतिदर्भनिर्मितः । ' पञ्चाशद्भिर्भवेद्ब्राह्मस्तदर्धेन तु विष्टरः' इति स्मृतिः ॥ २८ ॥


  1. दत्तासने उपवेशनाभावेऽपि स्पर्शमात्रं कार्यमित्यागमात्-गो.
  2. भोजनेन-ङ.
  3. किञ्चित्प्रसाद्याञ्जलिमब्रवीत्-ङ.किञ्चित्प्रसार्याञ्चलिमत्र-ङ.च.
  4. 'व्रीडः' इति घञन्तः पुल्लिङ्गोऽप्यस्ति । व्रीडादब्रवीदिति वाऽन्वयः
  5. पूर्वश्लोकव्याख्यानानुरोधेनैवं वर्णितम् । वस्तुतस्तु यथाश्रुतमेव स्वरसम्.