पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
209
मात्रे स्ववनवासादिवृत्तान्तं सोऽब्रवीत्तदा



 लाजान् माल्यानि शुक्लानि पायसं [१]कृसरं तथा ।
 समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ १८ ॥
 तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् ।
 तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम् ॥ १९ ॥
 सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।
 [२]अभिचक्राम संहृष्टा किशोरं बडवा यथा ॥

 किशोरः-अश्वपोतः ॥ २० ॥

 [३]स मातर[४]मभिक्रान्तामभिसंगृह्य राघवः ।
 परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ॥ २१ ॥

 अभिसंगृह्य नमस्कृत्य ॥ २१ ॥

 तमुवाच दुराधर्षं राघवं सुतमात्मनः ।
 कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२ ॥
 वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।
 प्राप्नुह्यायुश्च कीर्तिं च धर्मं [५]चोपहितं कुले ॥ २३ ॥

 कुले-कुलविषये ॥ २३ ॥

 [६]सत्यप्रतिज्ञं पितरं राजानं [७]पश्य राघव ।
 अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४ ॥


  1. कुसरं-तिलौदनम्-गो.
  2. अभिचक्राम-अभिमुखं जगाम
  3. एतदनन्तरं 'पर्यध्वजत धर्मात्मा मात्रा चैव परन्तपः' इत्यधिकम् -ङ.
  4. अभिक्रान्तां-अभिमुखमागतवतीम्
  5. 'चाप्युचितं कुले' इति पाठान्तरम् । कुलस्योचितमित्यर्थः.
  6. सत्यप्रतिज्ञामिति अभिषेक्ष्यतीत्यत्र हेतुः । इदानीमध्यभिषेको नारब्ध इति नाशङ्कनीयमिति भावः-गो.
  7. पश्य जानीहि-गो. अयमेव स्वरसः । लोकोक्तिषु बहुलमुपलंभारप्रकृतानुगुण्याच.