पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
208
[अयोध्याकाण्डः
कौसल्याऽऽक्रन्दनम्

 प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः ।
 स्त्रियो[१]बालाश्च वृद्धाश्र [२]द्वाररक्षणतत्पराः ॥ १२ ॥
 वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।
 न्यवेदयन्त त्वरितं राममातुः [३]प्रियं तदा ॥ १३ ॥

 वर्धयित्वेति । जयशब्देनेति शेषः ॥ १३ ॥

 कौसल्याऽपि तदा देवी[४] रात्रिं स्थित्वा समाहिता ।
 प्रभाते चाकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥ १४ ॥
 सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।
 [५][६]अग्निहोत्रं जुहोति स्म मन्त्रवत्कृतमङ्गला ॥ १५ ॥
 प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ।
 ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ १६ ॥

 अग्निहोत्रं जुहोति स्मेति । ज्येष्ठपत्नीत्वादृत्विङ्मुखेनेति शेषः । तदेवोक्तं–हावयन्तीमिति ॥ १६ ॥

 देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् ।
 दध्यक्षतं घृतं चैत्र मोदकान् हविषस्तथा ॥ १७ ॥


  1. बालांश्च वृद्धांश्च-ङ.
  2. द्वाररक्षणे नियुक्ताः स्त्रियः । तासु काश्चिद्बालाः-अल्पयस्काः । काश्चित्तु वृद्धाः इत्यर्थः । द्वाररक्षणतत्परा इति भिन्नं विशेष्यं वा.
  3. प्रियं-रामागमनरूपम्.
  4. रात्रिं-रात्रौ-'कालाध्वनोरत्यन्तसंयोगे'इत्यन्तसंयोगे द्वितीया । यावद्रात्रीत्यर्थः
  5. उत्तमजातिस्त्रीणां वैदिककर्मस्वधिकारो वर्तते- 'आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके'इति स्मृतेः-सत्य.
  6. 'अग्निं जुहोति स्म तदा' इत्येव सर्वत्र पाठो दृश्यते.