पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
207
रामो मातरमाप्रष्टुं तद्गृहं सानुजो ययौ

 स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः ।
 पुत्रशोकाभिसंतप्तः श्रुत्वा [१]व्यालीयतासने ॥ ७ ॥

 आसन एव व्यालीयत-विलीनोऽभूत् ; देहमवकुण्ठ्यावाङ्मुख उपविष्टोऽभूदित्यर्थः ॥ ७ ॥

 रामस्तु भृश[२]मायस्तो [३]निस्वनन्निव कुञ्जरः ।
 जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ ८ ॥

 आयस्तः-स्वजनदुःखतः प्राप्तखेदः कुञ्जर इव [४]निस्वनन् ॥

 सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।
 उपविष्टं गृहद्वारि [५]तिष्ठतश्चापरान् बहून् ॥ ९ ॥

 पुरुषं-द्वाराध्यक्षम् ॥ ९ ॥

 दृष्ट्वैव तु तदा रामं ते सर्वे [६]समुपस्थिताः ।
 [७]जयेन जयतां श्रेष्ठ वर्धयन्ति स्म राघवम् ॥ १० ॥

 जयेन-'विजयी भव' इति विजयशब्देनेत्यर्थः ॥ १० ॥

 प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।
 ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाऽभिसत्कृतान् ॥ ११ ॥

 राज्ञा अभिसत्कृतास्तथा ॥ ११ ॥


  1. व्यालीयत-लज्जादुःखभरेण शय्यायां विलीनोऽभूत-गो.
  2. मायत्तो-ङ.
  3. निश्वसन्-सर्वत्र
  4. निस्वनन्-उच्चैराक्रन्दन्नित्यर्थः.
  5. 'तिष्ठतश्चापरान् बहून्' इति । तिष्ठतः-अनुपविष्टान् । अस्यैकस्यैवोपवेशने हेतुः-वृद्धं परमपूजितमिति.
  6. सहसोत्थिताः-ङ.
  7. जयेति-ङ