पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
[अयोध्याकाण्डः
कौसल्याऽऽक्रन्दनम्

 कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च ।
 [१]गतिर्यः शरणं चासीत्, स [२]रामोऽद्य प्रवत्स्यति ॥ २ ॥

 अचोदित इति । अचोदितोऽपि कर्तेति शेषः ॥ २ ॥

 कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा ।
 तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ ३ ॥
 न क्रुध्यत्यभिशप्तोऽपि [३]क्रोधनीयानि वर्जयन् ।
 कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥ ४ ॥

 अभिशप्तः-कृतवाक्पारुष्यः । क्रोधनीयानि-क्रोधार्हाणि च अनुकम्पया वर्जयन्-तद्विषयक्रोधमकुर्वन् ॥ ४ ॥

 अबुद्धिर्बत ! नो राजा [४]जीवलोकं चरत्ययम् ।
 यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ ५ ॥

 जीवलोकं चरति-सर्वप्रजाजातं यावत् ॥ ५ ॥ भक्षयति-नाशयतीति

 इति सर्वा [५]महिष्यस्ता विवत्सा इव धेनवः ।
 पतिमाचुक्रुशुश्चैव सस्वनं चापि चुक्रुशुः ॥ ६ ॥

 आचुकुशुः निनिन्दुः । चुक्रुशुः-क्रन्दन्ति स्म ॥ ६ ॥


  1. गतिः-स्वष्टसाधकत्वेन प्राप्यः । शरणं-रक्षकः-गो.
  2. सुतोऽद्य-ङ.
  3. क्रोधनीयानि-क्रोधहेतुकर्माणि-गो.
  4. जीवलोकं मूर्खजनं चरति-अनुगच्छति केचित्.
  5. 'कृताभिषेका महिषी' इति तूत्सर्गः, यतः-'महिषी नृपयोषिति' इति हेमचन्द्र आह.