पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
205
निष्क्रान्ते पुरुषव्याघ्रे सर्वे दीनं विचुक्रुशुः

 प्रविश्य वेश्मातिभृशं [१]मुदाऽन्वितं
 समीक्ष्य तां चार्थविपत्तिमागताम् ।
 न चैव रामोऽत्र जगाम विक्रियां
 [२]सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनविंशः सर्गः


 अर्थविपत्तिं-अर्थभ्रंशं समीक्ष्य विक्रियां न जगाम । अपि तु सुहृज्जनस्य आत्मविपत्तिशङ्कया-प्राणविपत्तिशङ्कया [३]चिन्तां जगामेति शेषः । नव (४०) मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनविंशः सर्गः


विंशः सर्गः
[कौसल्याऽऽक्रन्दनम् ]

 तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।
 आर्तशब्दो महान् जज्ञे [४]स्त्रीणामन्तःपुरे तदा ॥ १ ॥

 अथ रामेण मातुर्वृत्तान्तनिवेदनम् । तस्मिन्नित्यादि ॥ १ ॥


  1. मुद्राऽन्वितः-ङ.
  2. सुहृज्जनस्य आत्मविपत्तिशङ्कया-प्राणनाशशङ्कया विक्रियां न जगाम-स्वविक्रियास्फुरणे सुहृज्जनो नश्येदिति शङ्कया स्वविक्रियां नादर्शयत्-गो. अर्थविपतिं-अर्थं-भ्रंशं वीक्ष्यापि रामो विक्रियां न जगाम; किन्तु सुहृज्जनस्य कौसल्यादशरथादिरूपस्य
    आत्मनां-प्राणानां विपत्तिशङ्कया चिन्तां जगाम-ति. आत्मविपत्तिशकुया-प्राणनाश-शङ्कयाऽपि-ती. अत्र उत्तरसर्गस्थं 'इदं हि तव दुःखाय वैदेह्या लक्ष्मणस्य च' इति वाक्यं स्मर्तव्यम्
  3. अनन्तरसर्गे २७ तमश्लोकानुरोधादेवं व्याख्यातम्.
  4. कैकेय्यन्तः पुरगतस्त्रीणामित्यर्थः । पूर्वोत्तरश्लोकपरिशीलनायामिदं स्पष्टम्