पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
204
[अयोध्याकाण्डः
रामाभ्यनुज्ञा

 मनसा दुःखं धारयन्निति । स्वासक्तप्राणिशोकस्मरणजदुःखमित्यर्थः; न तु तस्य स्वीयं किञ्चिद्दुःखं । तदेव दर्शितं-आत्मवानिति । साक्षात्कृतनित्यनिर्दुःखस्वतत्त्व इति यावत् । अप्रियशंसिवान्-अप्रियं शंसिप्यन्, भविष्यति क्वसुरार्षः ॥ ३५ ॥

 सर्वोऽप्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।
 नालक्षयत रामस्य [१]किञ्चिदाकारमानने ॥ ३६ ॥

 अभिजनः-अभितो वर्तमानो जनः तथा । श्रीमानिति । इदानीं रामाभिषेकप्रसंगात् भृतालंकारशोभावान् । आकारमिति । विकृताकारामिति यावत् ॥ ३६ ॥

 उचितं च महाबाहुर्न जहौ हर्षमात्मनः ।
 शारदः समुदीर्णांशुश्चन्द्रस्तेज [२]इवात्मजम् ॥ ३७ ॥

 उचितमिति। सहजसत्त्वगुणोचितमित्यर्थः। आत्मस्वरूपतया जातं-आत्मजम् ॥ ३७ ॥

 वाचा मधुरया रामः सर्वं सम्मानयन् जनम् ।
 मातुस्समीपं [३]धीरात्मा प्रविवेश महायशाः ॥ ३८ ॥
 तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।
 सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥ ३९ ॥


  1. आकारः-इङ्गितम् । अन्तर्गतभावावेदकः बाह्यावयवगतचेष्टाकान्त्यादिविशेषः
  2. आत्मजं-स्वभावजम् । आत्मनि-शरीरे जातं स्वाभावसिद्धं हर्षचिह्नम्-ति.
  3. धर्मात्मा-ङ.