पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ सर्गः]
203
इत्युक्त्वा पितरौ नत्वा रामस्तस्माद्विनिर्ययौ

तीर्थकत्वेन सन्निधिविशिष्टदेवताकत्वेन च तत्करणम् । तत्र-अभिषेकं-शालायां अविचालयन्–अप्रवर्तयन्, अपि तु [१]सावेक्षः-अवाङ्मुखेक्षण-सहितः; तल्लिप्साभावादेवभावः ॥ ३१ ॥

 न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।
 [२]लोककान्तस्य कान्तत्वं शीतरश्मेरिव[३]क्षपा ॥ ३२ ॥

 लक्ष्मीमिति । सहजामिति शेषः । शीतरश्मेः कान्तत्वं क्षपेवेति । क्षपा हि सर्वसौरमहातेजोविनाशिनी ॥ ३२ ॥

 न वनं गन्तुकामस्य [४][५]गच्छतश्च वसुंधराम् ।
 सर्वलोकातिगस्येव दृश्यते चित्तविक्रिया ॥ ३३ ॥

 वसुंधरां गच्छतः-प्राप्नुवतः । सर्वलोकातिगस्येवेति । शुद्धब्रह्मतत्त्वजीवन्मुक्त परमहंसस्येवेत्यर्थः ॥ ३३ ॥

 प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।
 विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ ३४ ॥

 छत्रादिप्रतिषेधः स्वप्रतिज्ञाविरोधात् ॥ ३४ ॥

 धारयन्मनसा [६]दुःखमिन्द्रियाणि निगृह्य च ।
 प्रविवेशात्मवान् वेश्म मातुरनियशंसिवान् ॥ ३५ ॥


  1. सापेक्षः-वनं प्रतीति शेषः-ति. भरताभिषेकरूपप्रार्थनासहितः-गो.अपेक्षा-उपेक्षा-सापेक्षः-उदासीनो वा.
  2. लोककान्तस्य शीतरश्मेः-चन्द्रस्य कान्तत्वं-सौन्दर्ये यथा क्षपा नापकर्षति, प्रत्युत वर्धयति तथेत्यर्थः
  3. क्षयः-ङ.
  4. 'त्यजतश्च वसुंधरा' इत्येव बहुषु पाठः । वनं गन्तुकामस्येस्यनेनैव राज्यत्यागस्याप्यार्थिकत्वात् 'गच्छतश्च' इति पाठो व्याख्यात्राऽऽदृतः । एवं सत्येव सुखदुःखयोः समत्वमुक्तं भवतीत्याशयः
  5. त्यजतश्च-ङ.च.झ.
  6. दुःखहेतुरुच्यते-'मातुरप्रियशसिवान्' इति