पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
202
[अयोध्याकाण्डः
रामाभ्यनुज्ञा

 भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
 तथा भवत्या कर्तव्यं [१]स हि धर्मः सनातनः ॥ २६ ॥

 स हीति । पितृशुश्रूषारूप इत्यर्थः ॥ २६ ॥

 रामस्य तु वचः श्रुत्वा भृशं दुःखहतः पिता ।
 शोकादशक्नुवन् बाष्पं प्ररुरोद [२]महास्वनम् ॥ २७ ॥
 वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा ।
 कैकेय्याश्चाप्यनार्याया निष्पपात महाधुतिः ॥ २८ ॥

 अनार्याया अपीति । स्वयं तद्दोषमगणयन्निति शेषः ॥ २८ ॥

 स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।
 निष्क्रम्यान्तःपुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥ २९ ॥
 तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।
 [३] लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ ३० ॥

 बाष्पपरिपूर्णाक्ष इति समीपे स्थित्वाऽवगत सर्ववृत्तान्तत्वात् ॥

 आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।
 [४]शनैर्जगाम [५]सावेक्षो दृष्टिं तत्राविचालयन् ॥ ३१ ॥

 आभिषेचनिकं-अभिषेकप्रयोजनम् । भाण्डं-उपकरणजातम्, तयुक्ताभिषेकशालामित्यर्थः । प्रदक्षिणं कृत्वेति । संभृतगङ्गादिपुण्य-


  1. पितृप्रतिज्ञानिर्वर्तनं यथा मम धर्मः तथा भरतस्यापि स धर्मः । अतः भरतः पालयेद्राज्यम् । पित्रा वरद्वये दत्ते तयोरेक एव मया निर्वर्तनीयः, अन्यश्च भरताभिषेचनरूपो यथा निर्वर्तेत तथा भवत्या कार्यम् । अहं खलु त्वद्वचनादिदानीमेव वनं
    गच्छामि, अतस्तवैवायं भार इति भावः
  2. महास्वनमिति क्रियाविशेषणम्
  3. लक्ष्मणस्यापि
    रामेण सहागमनं १६ सर्ग एवोक्तम्
  4. शनैः-न तु ससंभ्रमम् । अनेनोद्वेगाभाव उक्तः
  5. सापेक्षः-ङ.च.