पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ सर्गः]
201
दण्डकारण्यमद्यैव स्वहं यामि गतव्यथः

 अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् ।
 वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ २३ ॥

 अत्रभवता-पूज्येन पित्रा साक्षादनुक्तोऽपि 'अप्रतिषिद्धमनुमतम् । इति न्यायेन भवत्या वचनादेव केवलमहं वने वत्स्यामि ॥ २३ ॥

 न नूनं मयि[१] कैकेयि ! [२]किञ्चिदाशंससे गुणम् ।
 यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ २४ ॥

 नूनमिति । मम नियोगे पितुरतिप्रियमातृत्वादेवेश्वरतरा सती भरतराज्यं प्रति यत्-यस्मात् राजानमवोचस्त्वम् अतो मयि गुणं-आर्जवौदार्यादिगुणं किञ्चिदपि नाशंससे-न विचारितवती नूनम् ॥ २४ ॥

 [३]यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।
 अतोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ २५ ॥

 अतः-अनन्तरम् अद्यैव दिने । दण्डकानां-तदाख्य- जनपदानाम् [४]


  1. एतावता 'देवि' इति सम्बोधयितुः, 'कैकेयि' इतीदानीं संबोधनेन रामस्य कैकेयीविषये किञ्चिदिव कोपो वा जुगुप्सा वा जातेति वक्तुं शक्यते । इदमपि 'लोकमावस्तुं' इति श्लोकटिप्पण्युक्तार्थे उपाद्वलकं भवति.
  2. मुख्यानाशंससे गुणान्-ङ.
  3. अद्यैव गन्तव्यमित्युक्तं, तत्र किञ्चिद्विलंबं याचते-यावदिति-गो.
  4. दण्डो नाम राजा इक्ष्वाकुपुत्रः शुक्राचार्यपुत्री अरजां प्रधर्षितवान् । तेन कुपितस्य शुक्राचार्यस्य शापात् तद्राज्यमेव काननमभूदिति उत्तरकाण्डे ८०-८१ सर्गयोर्दृश्यते । दण्डकेत्यत्र कन् कुत्सायाम्. ॥ २५ ॥