पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
200
[अयोध्याकाण्डः
रामाभ्यनुज्ञा

 तदप्रियमनार्याया वचनं दारुणोदयम् ।
 श्रुत्वा [१]गतव्यथो रामः कैकेयीं [२]चेदमब्रवीत् ॥ १९ ॥

 [३]दारुणोदयं-क्रौर्योत्तरम् ॥ १९ ॥

 [४]नाहमर्थपरो देवि ! लोकमावस्तुमुत्सहे ।
 विद्धि मामृषिभिस्तुल्यं [५]केवलं धर्ममास्थितम् ॥ २० ॥

 लोकमावस्तुमिति । इहलोके वस्तुं, "उपान्वध्याङ्' इत्याधारस्य कर्मत्वम् ॥ २० ॥

 यदत्र भवतः किञ्चिच्छक्यं कर्तुं प्रियं मया ।
 प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ २१ ॥

 अत्रभवतः पूज्यस्य पितुः यत् किञ्चित्प्रियं तत् सर्वथा कृतमेवेति विद्धीति शेषः ॥ २१ ॥

 न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।
 यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ २२ ॥

 तथा निश्चये हेतुमाह-न हीत्यादि । शुश्रूषा-पादसंवाहनादि लक्षणा । वचनक्रिया-शिष्टेष्टकरणम् ॥ २२ ॥


  1. गतव्यथः-'श्रुत्वा न विव्यथे' इति पूर्वोक्तावस्थातः ईषदप्यचलन् । यद्वा-आगतव्यथः इति वा पदम् । आत्मक्लेशे अव्यथमानः पितुः क्लेशात् प्राप्तव्यथ इत्यर्थः
  2. वाक्यमब्रवीत्-ङ.
  3. दारुणोदयं-क्रूरोपक्रमम् । आरंभप्रभृति कौर्यविशिष्टमिति वार्थः
  4. अहं अर्थपरः-धनपरः न, किन्तु लोकमावस्तुं जनं संगृहीतुं नोत्सह इति वा-ती. लोकमावस्तुं-लोके वस्तुं नोत्सहे-ति. अथवा-अर्थपरस्सन् लोके वस्तुं नोत्सह इत्यर्थः । 'तव त्वहं
    क्षमं मन्ये' इत्यादिवाक्यश्रवणजरोषादिवमुक्तिः । तत्रापि 'यावत् त्वं न वनं यातः इत्यादिवाक्यश्रवणेन दशरथमूर्च्छया रोषः । अत एव 'न नूनं मयि' इत्यनुपदमेवोक्तिः.
  5. विमलं-ङ.