पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ सर्गः
199]
आनयाद्यैव भरतं मातर्मातुलमन्दिरात्

 [१]तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।
 राम ! तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ १४ ॥

 तवेत्यादि । उत्सुकस्य गमनोत्सुकस्य तव गमनविलम्बमहमिदानीं न क्षमं मन्ये-अनुचितं मन्ये ॥ १४ ॥

 व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ।
 [२]नैतत्किञ्चिन्नरश्रेष्ठ ! [३]मन्युरेषोऽपनीयताम् ॥ १५ ॥

 कुत इत्यत्र हेतुमाह-व्रीडेत्यादि । यतः स्वसत्यस्य पारप्राप्त्यदर्शनजव्रीडान्वितः तस्मादेव यच्च किञ्चिदपि त्वां प्रति नाभिभाषते ; एतदनभिभाषणमुद्दिश्य नान्यत्किञ्चित्कारणं त्वया चिन्त्यम् । यदेवं-अतो हे नरश्रेष्ठ । राज्ञ एष मन्युः-दैन्यं त्वदविलम्बगमनेनापनीयताम् ॥ १५ ॥

 यावत्त्वं न वनं यातः पुरादस्मादतित्वरन् ।
 पिता तावन्न ते राम ! स्नास्यते मोक्ष्यतेऽपि वा ॥ १६ ॥

इतश्च न युक्तो विलम्ब इत्याह-यावदित्यादि । भोक्ष्यतेऽपिवेति । मत्प्रतिबन्धाद्दरिद्राधमर्णवदिति भावः ॥ १६ ॥

 [४]धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः ।
 मूर्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ १७ ॥
 रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
 कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ १८ ॥

 वनं गन्तुं कृतत्वरः अभूदिति शेषः ॥ १८ ॥


  1. रामो यावद्भरतागमनं विलंबिष्यते चेत्तदा न स्वेष्टं सिध्येत, भरतस्य रामभक्तत्वादित्याशयेनाह-तवेत्यादि.
  2. नैतत्किञ्चिदिति । सहजेयं व्रीडेति भावः
  3. मन्युः-राजा स्वयं नाभिभाषते खलु-इति कोपो वा
  4. धिगिति-उक्तासत्यवचनं श्रुत्वा-गो.